यथाकामं यथोत्साहं यथाकालं यथासुखम्
देवानतर्पयद्यज्ञैः पितॄञ्श्राद्धैस्तथैव च
अतिथीनन्नपानैश्च वैश्यंश्च परिपालनैः
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयत्
स राजा सिंहविक्रान्तो युवा विषयगोचरः
स मार्गमाणः कामानामतद्दोषनिदर्शनात्
अपश्यत्स यदा तान्वै वर्द्धमानान्नृपस्तदा
संप्राप्य स तु तान्कामांस्तृप्तः खिन्नश्च पार्थिवः
परिसंख्याय काले च कलाः काष्ठास्तथैव च
यथा सुखं यथोत्साहं यथाकालमरिन्दम
पूरो प्रीतो ऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम्
प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः
अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसम्
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो
यदुर्ज्येष्ठस्तव सुतो जातस्तमनुदतुर्वसुः
सुतः संबोधयामस्त्वां धर्मं समनुपालय
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः
मातापित्रोर्वचनकृद्वीरः पुत्रः प्रशस्यते
प्रतिकूलः पितुर्यश्च न स पुत्रः सतांमतः
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च
पूरुणा तु कृतं वाक्यं मानितश्च विशेषतः
सर्वे कामा मम कृताः पूरुणा पुण्यकारिणा
पुत्रो यस्त्वानुवर्त्तेत स राजा तु महामते
यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा
अर्हे ऽस्य पूरू राज्यस्य यः प्रियः प्रियकृत्तव
पौरजान पदैस्तुष्टैरित्युक्ते नाहुषस्तदा
दिशि दक्षिणपूर्वस्यां तुर्वसुं तु न्यवेशयत्
प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च तावुभौ
व्यभजत्पञ्चधा राजा पुत्रेभ्यो नाहुषस्तदा
यथाप्रदेशं धर्मज्ञैर्धर्मेण प्रतिपान्यते