प्रजा च यौवनं प्राप्ता विनशिष्यत्यनो तव
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
काव्यस्योशनसः शापान्न च तृप्तो ऽस्मियौवने
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम्
एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा
प्रतिपत्स्ये च ते राजन्पाप्मानं जरया सह
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव
पूरो प्रीतो ऽस्मि भद्रं ते प्रीतश्चेदं ददामि ते
पूरोरनुमतो राजा ययातिः स्वजरां ततः
गौरवेणाथ वयसा ययातिर्नहुषात्मजः
यथाकामं यथोत्साहं यथाकालं यथासुखम्
देवानतर्पयद्यज्ञैः पितॄञ्श्राद्धैस्तथैव च
अतिथीनन्नपानैश्च वैश्यंश्च परिपालनैः
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयत्
स राजा सिंहविक्रान्तो युवा विषयगोचरः
स मार्गमाणः कामानामतद्दोषनिदर्शनात्
अपश्यत्स यदा तान्वै वर्द्धमानान्नृपस्तदा
संप्राप्य स तु तान्कामांस्तृप्तः खिन्नश्च पार्थिवः
परिसंख्याय काले च कलाः काष्ठास्तथैव च
यथा सुखं यथोत्साहं यथाकालमरिन्दम
पूरो प्रीतो ऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम्
प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः
अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसम्
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो
यदुर्ज्येष्ठस्तव सुतो जातस्तमनुदतुर्वसुः
सुतः संबोधयामस्त्वां धर्मं समनुपालय
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः
मातापित्रोर्वचनकृद्वीरः पुत्रः प्रशस्यते
प्रतिकूलः पितुर्यश्च न स पुत्रः सतांमतः
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च