वलीसंततगात्रश्च निराशो दुर्बलाकृतिः
सहोपवीतिभिश्चैव तां जरां नाभिकामये
प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै
उवाच वदतां श्रेष्टो ज्येष्ठं तं गर्हयन्सुतम्
मामनादृत्य दुर्बुद्धे यदहं तव देशिकः
यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह
जरायां बहवो दोषाः पानभोजन कारिताः
यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि
संकीर्णेषु च धर्मेण प्रतिलोमनरेषु च
वासस्ते पाप म्लेच्छेषु भविष्यति न संशयः
एवं तु तुर्वसुंशप्त्वा ययातिः सुतमात्मनः
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम्
न सुखं चास्य भवति न जरां तेन कामये
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
नौप्लवोत्तरसंचारस्तव नित्यं भविष्यति
अनो त्वं प्रतिपाद्यस्व पाप्मानं जरया सह
न जुहोति स काले ऽग्निं तां जरां नाभिकामये
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
प्रजा च यौवनं प्राप्ता विनशिष्यत्यनो तव
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
काव्यस्योशनसः शापान्न च तृप्तो ऽस्मियौवने
पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम्
एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा
प्रतिपत्स्ये च ते राजन्पाप्मानं जरया सह
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव
पूरो प्रीतो ऽस्मि भद्रं ते प्रीतश्चेदं ददामि ते
पूरोरनुमतो राजा ययातिः स्वजरां ततः
गौरवेणाथ वयसा ययातिर्नहुषात्मजः