तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी
रथं तस्मै ददौ शक्रः प्रीतः परमभास्वरम्
युक्तं मनोजवैरश्वैर्येन कन्यां समुद्वहत्
ययातिर्युधि दुर्द्धर्षो देवदानवमानवैः
यावत्सुदेशप्रभवः कौरवो जनमेजयः
जगाम सरथो नाशं शापाद्गार्ग्यस्य धीमतः
दुर्बुद्धिर्हिंसया मास लोहगन्धी नराधिपः
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित्
स प्रायाच्छौनकमृषिं शरणं व्यथितस्तदा
योजयामास चैन्द्रोतः शौनको जनमेजयम्
स लोहगन्धो व्यनशत्त स्यावभृथमेत्य ह
दत्तः शक्रेन तुष्टेन लेभे तस्माद्बृहद्रथः
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः
पुत्रं श्रेष्टं वरिष्ठं च यदुमित्यब्रवीद्वचः
काव्यस्योशनसः शापान्न च तृप्तो ऽस्मि यौवने
जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह
सा तु व्यायामसाध्या वै न ग्रहीष्यामि ते जराम्
तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे
वलीसंततगात्रश्च निराशो दुर्बलाकृतिः
सहोपवीतिभिश्चैव तां जरां नाभिकामये
प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै
उवाच वदतां श्रेष्टो ज्येष्ठं तं गर्हयन्सुतम्
मामनादृत्य दुर्बुद्धे यदहं तव देशिकः
यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह
जरायां बहवो दोषाः पानभोजन कारिताः
यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि
संकीर्णेषु च धर्मेण प्रतिलोमनरेषु च