कोटिशो दीय मानं च सूर्यस्योदयनादपि
तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः
यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः
क्षत्रधर्मसुतो जातः प्रतिपक्षो महातपाः
सृंजयस्य जयः पुत्रो विजयस्तस्य जज्ञिवान्
इर्यश्वस्य सुतो राजा सहदेवः प्रतापवान्
अहीनस्य चयत्सेनस्तस्य पुत्रो ऽथ संकृतिः
इत्येते क्षत्रधर्माणो नहुषस्य निबोधत
यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः
काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा
तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी
रथं तस्मै ददौ शक्रः प्रीतः परमभास्वरम्
युक्तं मनोजवैरश्वैर्येन कन्यां समुद्वहत्
ययातिर्युधि दुर्द्धर्षो देवदानवमानवैः
यावत्सुदेशप्रभवः कौरवो जनमेजयः
जगाम सरथो नाशं शापाद्गार्ग्यस्य धीमतः
दुर्बुद्धिर्हिंसया मास लोहगन्धी नराधिपः
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित्
स प्रायाच्छौनकमृषिं शरणं व्यथितस्तदा
योजयामास चैन्द्रोतः शौनको जनमेजयम्
स लोहगन्धो व्यनशत्त स्यावभृथमेत्य ह
दत्तः शक्रेन तुष्टेन लेभे तस्माद्बृहद्रथः
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः
पुत्रं श्रेष्टं वरिष्ठं च यदुमित्यब्रवीद्वचः
काव्यस्योशनसः शापान्न च तृप्तो ऽस्मि यौवने
जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह
सा तु व्यायामसाध्या वै न ग्रहीष्यामि ते जराम्
तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे