ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम्
ज्ञानं तपश्च सत्यं च ह्यैश्वर्यं धर्म एव च
सर्वान्देवानृषींश्चैव समेतानसुरैः सह
अत्येति देवा नैश्वर्याद्वलेन च महासुरान्
प्रजामनु द्यामां सृष्ट्वा सर्गादुपरराम ह
महादेवस्य रुद्रस्य साधकैरृषिभिः सह
विस्तरेण प्रवक्ष्यामि नामानि तनुभिः सह
कल्पेष्वन्येष्वतीतेषु ह्यस्मिन्कल्पे तु ताञ्शृणु
प्रादुरा सीत्ततोङ्के ऽस्य कुमारो नीललोहितः
दृष्ट्वा रुदन्तं सहसा कुमारं नीललोहितम्
सो ऽब्रवीद्देहि मे नाम प्रथमं त्वं पितामह
किं रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत
भवस्त्वं देवनाम्नासि इत्युक्तः सो ऽरुदत्पुनः
तृतीयं देहि मे नाम इत्युक्तः सो ऽब्रवीत्पुनः
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह
ईशानो देवनाम्नासि इत्युक्तः सो ऽरुदत्पुनः
पञ्चमं नाम देहीति प्रत्युवाच स्वयंभुवम्
किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत्
भीमस्त्वं देव नाम्नासि इत्युक्तः सो ऽरुदत्पुनः
सप्तमं देहि मे नाम इत्युक्तः प्रत्युवाच ह
तं रुदन्तं कुमारं तु मारोदीरिति सो ऽब्रवीत्
त्वं महादेवनामासि इत्युक्तो विरराम ह
प्रोवाच नाम्नामेतेषां स्थानानि प्रदिशेति ह
सूर्यो जलं मही वायुर्व ह्निराकाशमेव च
तेषु पूज्यश्च वन्द्यश्च नमस्कार्यश्च यत्नतः
यदुक्तं ते मया पूर्वं नाम रुद्रेति वै विभो
इत्युक्ते तस्य यत्तेजश्चक्षुस्त्वासीत्प्रकाशकम्
उद्यतमस्तं यन्तं च वर्जयेद्दर्शनेरविम्
तस्मात्मूर्यं न वीक्षेत आयुष्कामः शुचिः सदा
उभे संध्ये ह्युपासीना गृणन्तः सामऋग्यजुः