प्रयतिष्यामि देवेन्द्र त्वद्धितार्थं महाद्युते
तथा शक्र गमिष्यामि मा भूत्ते विक्लवं मनः
तेषां च बुद्धिसंमोहमकरोद्बुद्धिसत्तमः
ब्रह्मद्विषश्च संबृत्ता हतवीर्यपराक्रमाः
हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान्
शृणुयाच्छ्रावयेद्वापि न स दौरात्म्यमाप्नुयात्
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे धन्वन्तरिसंभवादिवर्णनं नाम सप्तषष्टितमो ऽध्यायः
किंवीर्याश्च महात्मानो जाता मरुतकन्यया
मासिमासि महातेजाः षष्टिसंवत्सरान्नृप
अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम्
कोटिशो दीय मानं च सूर्यस्योदयनादपि
तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः
यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः
क्षत्रधर्मसुतो जातः प्रतिपक्षो महातपाः
सृंजयस्य जयः पुत्रो विजयस्तस्य जज्ञिवान्
इर्यश्वस्य सुतो राजा सहदेवः प्रतापवान्
अहीनस्य चयत्सेनस्तस्य पुत्रो ऽथ संकृतिः
इत्येते क्षत्रधर्माणो नहुषस्य निबोधत
यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः
काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा
तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी
रथं तस्मै ददौ शक्रः प्रीतः परमभास्वरम्
युक्तं मनोजवैरश्वैर्येन कन्यां समुद्वहत्
ययातिर्युधि दुर्द्धर्षो देवदानवमानवैः
यावत्सुदेशप्रभवः कौरवो जनमेजयः
जगाम सरथो नाशं शापाद्गार्ग्यस्य धीमतः
दुर्बुद्धिर्हिंसया मास लोहगन्धी नराधिपः
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित्