स विप्रनष्टां देवानां परमश्रीः श्रियं वशी
तं तथाह रजिं तत्र देवैः सह शतक्रतुः
इन्द्रो ऽसि राजन्देवानां सर्वेषां नात्र संशयः
स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया
तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ
तानि पुत्रशतान्यस्य तच्च स्थानं शचीपतेः
ततः काले बहुतिथे समतीते महाबलः
बदरी फलमात्रं वै पुरोडाशं विधत्स्व मे
ब्रह्मन्कृशो ऽहं विमना त्दृतराज्यो हृतासनः
यद्येवं चोदितःशक्र त्वयास्यां पूर्वमेव हि
प्रयतिष्यामि देवेन्द्र त्वद्धितार्थं महाद्युते
तथा शक्र गमिष्यामि मा भूत्ते विक्लवं मनः
तेषां च बुद्धिसंमोहमकरोद्बुद्धिसत्तमः
ब्रह्मद्विषश्च संबृत्ता हतवीर्यपराक्रमाः
हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान्
शृणुयाच्छ्रावयेद्वापि न स दौरात्म्यमाप्नुयात्
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे धन्वन्तरिसंभवादिवर्णनं नाम सप्तषष्टितमो ऽध्यायः
किंवीर्याश्च महात्मानो जाता मरुतकन्यया
मासिमासि महातेजाः षष्टिसंवत्सरान्नृप
अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम्
कोटिशो दीय मानं च सूर्यस्योदयनादपि
तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः
यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः
क्षत्रधर्मसुतो जातः प्रतिपक्षो महातपाः
सृंजयस्य जयः पुत्रो विजयस्तस्य जज्ञिवान्
इर्यश्वस्य सुतो राजा सहदेवः प्रतापवान्
अहीनस्य चयत्सेनस्तस्य पुत्रो ऽथ संकृतिः
इत्येते क्षत्रधर्माणो नहुषस्य निबोधत
यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः
काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा