नाहं देवि गमिष्यामि त्वन्यत्रेदं विहाय वै
तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम्
यस्मिन्वसेद्भवो देवः सर्वदेवनमस्कृतः
अन्तर्द्धानं कलौ याति तत्पुरं तु महात्मनः
एवं वाराणसी शप्ता निवेशं पुनरागता
हत्वा निवेशयामास दिवोदासो नराधिपः
भद्रसेनस्य पुत्रस्तु दुर्मदो नाम नामतः
दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्द्दनः
वैरस्यान्त महाराज तदा तेन विधित्सता
वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
लोपामुद्राप्रसादेन परमायुरवाप्तवान्
रम्यामावासयामास पुरीं वाराणसीं नृपः
सुनीथस्य तु दायादः क्षैमाख्यो नाम धार्मिकः
सुकेतुतनयश्चापि धर्मकेतुरिति श्रुतः
सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः
सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः
वेणुहोत्रसुतश्चापि गार्ग्यो वै नाम विश्रुतः
ब्राह्मणाः क्षत्रियाश्चैव तयोः पुत्राः सुधार्मिकाः
इत्येते काश्यपाः प्रोक्ता रजेरपि निबोधत
राजेयमिति विख्यातं क्षत्र सिंद्रभयावहम्
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन्
ब्रूहि नः सर्वलोकेश श्रोतुमिच्छामहे वयम्
योत्स्यते ते विजष्यन्ते त्रींल्लोकान्नात्र संशयः
यतो धृतिस्ततो धर्मो यतो धर्मस्ततो जयः
अभ्ययुर्जयमिच्छन्तः स्तुवन्तो राजसत्तमम्
ऊचुरस्मज्जयाय त्वं गृहाम वरकार्मुकम्
इन्द्रो भवामि धर्मात्मा ततो योत्स्ये रणाजिरे
अस्मिन्तु समये राजंस्तिष्ठेथा देवनोदिते
भविष्यसींद्रो जित्वेति देवैरपि निमन्त्रितः