गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु
ततो गत्वा निकुंभस्तु पुरीं वाराणसीं पुरा
श्रेयस्ते ऽहं करिष्यामि स्थानं मे रोचयानघ
तथा स्वप्ने यथा दृष्टं सर्वं कारितवान्द्विजः
पूजा तुमहती चैव नित्यमेव प्रयुज्यते
अन्नप्रदानयुक्तैश्च ह्यत्यद्भुतमिवाभवत्
ततो वरसहस्राणि नागराणां प्रयच्छति
राज्ञस्तु महिषी श्रेष्टा सुयशा नाम विश्रुता
पूजां तु विपुलां कृत्वा देवी पुत्रानयाचत
न प्रयच्छति पुत्रांस्तु निकुंभः कारणेन तु
अथ दीर्घेण कालेन क्रोधो राजानमाविशत्
प्रीत्या वरांश्च शतशो न किञ्चिन्नः प्रयच्छति
स याचितश्च बहुशो देव्या मे पुत्रकारणात्
अतो नार्हति पूजा तु मत्सकाशात्कथञ्चन
एवं तु स विनिश्चित्य दुरात्मा राजकिल्बिषी
भग्नमायतनं दृष्ट्वा राजानमशपत्प्रभुः
अकस्मात्तु पुरी शून्या भवित्रीते नराधिप
शप्त्वा पुरीं निकुंभस्तु महादेवमथानयत्
तुल्यां देवविभूत्या तु देव्याश्चैव महामनाः
देव्या क्रीडार्थमीशानो देवो वाक्यमथाब्रवीत्
नाहं देवि गमिष्यामि त्वन्यत्रेदं विहाय वै
तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम्
यस्मिन्वसेद्भवो देवः सर्वदेवनमस्कृतः
अन्तर्द्धानं कलौ याति तत्पुरं तु महात्मनः
एवं वाराणसी शप्ता निवेशं पुनरागता
हत्वा निवेशयामास दिवोदासो नराधिपः
भद्रसेनस्य पुत्रस्तु दुर्मदो नाम नामतः
दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्द्दनः
वैरस्यान्त महाराज तदा तेन विधित्सता
वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः