स संभूतः समुद्रान्ते मथ्यमाने ऽमृते पुरा
सद्यःसंसिद्धकार्यं तं दृष्ट्वा विष्णुखस्थितः
अब्जः प्रोवाच विष्णुं तं तनयो ऽस्मि तव प्रभो
एवमुक्तः स दृष्ट्वा तु तथ्यं प्रोवाच स प्रभुः
वेदेषु विधियुक्तं च विधिहोत्रं महर्षिभिः
अर्वाक्सूतो ऽसि हे देव तव मन्त्रो न वै प्रभो
अणिमादियुतां सिद्धिं गतस्तत्र भविष्यसि
चा (च) तुर्मन्त्रैर्घृतैर्गव्यैर्यक्ष्यन्ते त्वां द्विजातयः
अवश्यभावीह्यर्थो ऽयं प्राग्दृष्टस्त्वब्जयोनिना
तस्मात्तस्मै वरं दत्त्वा विष्णुरन्तर्दधे ततः
पुत्रकामस्तपस्तेपे नृपो दीर्घतपास्तथा
वरेण च्छन्दयामास ततो धन्वन्तरिर्नृपम्
तथेति समनुज्ञाय तत्रैवान्तरधात्प्रभुः
काशिराजो महाराजः सर्व रोगप्रणाशनः
तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत्
अथ केतुमतः पुत्रो जज्ञे भीमरथो नृपः
दिवोदास इति ख्यातो वाराणस्यधिपो ऽभवत्
शून्यां निवेशयामास क्षेमको नाम राक्षसः
शून्या वर्षसहस्रं वै भवित्रीति पुनः पुनः
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत्
निकुंभश्चापि धर्मात्मा सिद्धक्षेत्रं शशाप यः
वसते स महातेजाः स्फीतायां वै नराधिपः
देव्याः स प्रियकामस्तु वसन्वै श्वशुरान्तिके
पूर्वोक्तरूपसंवेषैस्तोषयन्ति महेश्वरीम्
जुगुप्सते सा नित्यं वै देवं देवीं तथैव च
दरिद्रः सर्वथैवेह हा कष्टं लज्जते न वै
स्मितं कृत्वा तु वरदा हरपार्श्वमथागमत्
नेह वत्स्याम्यहं देव नय मां स्वं निवेशनम्
वासार्थं रोचयामास पृथिव्यां तु द्विजोत्तमाः
दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः