बभ्रवः पणिनस्छैव ध्यानजप्यास्तथैव च
देवला यामदूताश्च शालङ्कायनबाष्कलाः
ऋष्यन्तरविवाह्यास्ते बहबः कौशिकाः स्मृताः
विश्वामित्रस्य पुत्राणां शुनःशेफो ऽग्रजः स्मृतः
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया
किंलक्षणेन धर्मेण तपसेह श्रुतेन वा
येनयेनाभिधानेन ब्राह्मण्यं क्षत्रिया गताः
एवमुक्तस्ततो वाक्यमब्रवीदिदमर्थवत्
धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते
रागमोहान्वितो ह्यन्ते पावनार्थं ददाति यः
तस्य धर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः
संक्लिष्टं कर्मणा दानं न तिष्ठति दुरात्मनः
कामाननभि संधाय यजते च ददाति च
दानेन भोगानाप्नोति स्वर्गं सत्येन गच्छति
सत्यं तु तपसः श्रेयस्तस्माज्ज्ञानं गुरु स्मृतम्
विश्वामित्रो नरपतिर्मान्धाता संकृतिः कपिः
आर्ष्टिषेणो ऽजमीढश्च भार्गव्योमस्तथैव च
रथान्तरः शौनकश्च विष्णुवृद्धादयो नृपाः
एते राजर्षयः सर्वे सिद्धिं तु महतीं गताः
अत ज्ञर्ध्वं प्रवक्ष्यामि आयोर्वंशं महात्मनः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उवोद्धात पादे भार्गवचरिते अमावसुवंशानुकीर्त्तनं नाम षट्षष्टितमो ऽध्यायः
स्वर्भानुत नयायां ते प्रभायां जज्ञिरे नृपाः
रंभो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः
सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः
एतस्य वंशेसंभूता विचित्रैः कर्मभिर्द्विजाः
शौनकाश्चार्ष्टिषेणाश्च क्षत्रोपेता द्विजातयः
धन्वश्च दीर्घतपसो विद्वान्धन्वन्तरीस्ततः
अथैनमृषयः प्रोचुः सूतं वाक्यमिद पुनः
एतद्वेदितुमिच्छामस्तन्नोब्रूहि परन्तप