तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम्
एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः
गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात्
चरुद्वयं गृहीत्वा तु ऋषेः स्त्यवती तदा
माता तु तस्यै दैवैन दुहित्रे स्वचरुं ददौ
अथ सत्यवती गर्भं क्षत्रियान्तकरं शुभम्
तामृचीकस्ततो दृष्ट्वा योगेनाप्यवमृश्य च
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना
माता जनिष्यते चापि तथा भूतं तपोधनम्
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा
ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिमब्रवीत्
उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात्
इच्छंल्लोकानपि मुने सृजेथाः किं पुनः सुतम्
काममेवंविधः पौत्रो मम स्यात्तव सुव्रत
ततः प्रसादमकरोत्स तस्यास्तपसो बलात्
त्वया यथोक्तं वचनं तथा भद्रेभविष्यति
तपस्यभिरतं दान्तं जमदग्निं शमात्मकम्
जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत
कौशिकी तु समाख्याता प्रवृत्तेयं महानदी
इक्ष्वाकुवंशप्रभवो रेणुको नाम पार्थिवः
रेणुकायां कमल्यां तु तपोधृतिसमाधिना
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्
और्वस्यैवमृचीकस्य सत्यवत्यां महामनाः
मध्यमश्च शुनःशेफः शुनः पुच्छः कनिष्ठकः
जज्ञे भृगुप्रसादेन कौशिकान्वयवर्द्धनः
हरिश्चन्द्रस्य यज्ञे तु पशुत्वे नियतः स वै
देवैर्दत्तः स वै यस्माद्देवरातस्ततो ऽभवत्
मधुच्छन्दादयश्चैव कृतदेवौ ध्रुवाष्टकौ
तेषाङ्गोत्राणि बहुधा कौशिकानां महात्मनाम्
उदुंबराश्च वातड्यास्तलकायनचान्द्रवाः