देशे पुण्यतमे चैव महर्षिभिरलङ्कृते
उत्तरे यामुने तीरे प्रतिष्ठाने महायशाः
गन्धर्वलोके विदिता आयुर्द्धीमानमावसुः
अमाव सोस्तु वै जाते भीमो राजाथ विश्वचित्
विद्वांस्तु काञ्चनस्यापि सुहोत्रो ऽभून्महाबल
प्रतिगत्य ततो गङ्गा वितते य५कर्मणि
गङ्गया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः
तदाराजर्षिणा पीतां गङ्गां दृष्ट्वा सुरर्षयः
यौवनाश्वस्य पौत्रीं तु कावेरीं जह्नुरावहत्
कावेरीं सरितां श्रेष्ठ जह्नुभार्यामनिन्दिताम्
कावेर्यां जनयामास अजकस्तस्य चात्मजः
बभूव मृग शीलः सुशस्तस्यात्मजः स्मृतः
कुशांबः कुशानाभश्च अमूर्तरयमो वसुः
पूर्णे वर्षसहस्रे वै शतक्रतुरपश्यत
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः
पूर्वं कन्या महाभागा नाम्ना सत्यवती शुभा
तस्याः प्रीतस्तु वै भर्त्ता भार्गवो भृगुनन्दनः
अथावोचत्प्रियां तत्र ऋचीको भार्गवस्तदा
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्त्रियर्षभः
तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम्
एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः
गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात्
चरुद्वयं गृहीत्वा तु ऋषेः स्त्यवती तदा
माता तु तस्यै दैवैन दुहित्रे स्वचरुं ददौ
अथ सत्यवती गर्भं क्षत्रियान्तकरं शुभम्
तामृचीकस्ततो दृष्ट्वा योगेनाप्यवमृश्य च
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना
माता जनिष्यते चापि तथा भूतं तपोधनम्
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा