आत्मनः शापमोक्षार्थं नियमं सा चकार तु
द्वौ मेषौ शयनाभ्याशे सा तावद्ध्यवतिष्ठते
यद्येष समयो राजन्यावत्कालश्च ते दृढः
तस्यास्तं समयं सर्वं स राजा पर्यपालयत्
वर्षाण्यथ चतुःषष्टिं तद्भक्त्या शापमोहिता
चिन्तयध्वं महाभागा यथा सा तु वराङ्गना
ततो विश्वापसुर्नाम गन्धर्वः सुमहामतिः
तस्यास्तु विरहेणासौ भ्रममाणस्त्वथोर्वशीम्
गन्धर्वानुपधावेति स तच्चक्रे ऽथ ते ददुः
एको ऽग्निः पूर्वमासीद्वै ऐलस्तं त्रीनकल्पयत्
देशे पुण्यतमे चैव महर्षिभिरलङ्कृते
उत्तरे यामुने तीरे प्रतिष्ठाने महायशाः
गन्धर्वलोके विदिता आयुर्द्धीमानमावसुः
अमाव सोस्तु वै जाते भीमो राजाथ विश्वचित्
विद्वांस्तु काञ्चनस्यापि सुहोत्रो ऽभून्महाबल
प्रतिगत्य ततो गङ्गा वितते य५कर्मणि
गङ्गया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः
तदाराजर्षिणा पीतां गङ्गां दृष्ट्वा सुरर्षयः
यौवनाश्वस्य पौत्रीं तु कावेरीं जह्नुरावहत्
कावेरीं सरितां श्रेष्ठ जह्नुभार्यामनिन्दिताम्
कावेर्यां जनयामास अजकस्तस्य चात्मजः
बभूव मृग शीलः सुशस्तस्यात्मजः स्मृतः
कुशांबः कुशानाभश्च अमूर्तरयमो वसुः
पूर्णे वर्षसहस्रे वै शतक्रतुरपश्यत
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः
पूर्वं कन्या महाभागा नाम्ना सत्यवती शुभा
तस्याः प्रीतस्तु वै भर्त्ता भार्गवो भृगुनन्दनः
अथावोचत्प्रियां तत्र ऋचीको भार्गवस्तदा
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्त्रियर्षभः