स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः
पार्ष्मिग्राहो ऽभवद्देवः प्रगृह्याजगवं धनुः
उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः
देवानां दानवानां च लोकक्षयकरं महत्
ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम्
ददावाङ्गिरसे तारां स्वयमेत्य पितामहः
गर्भमुत्सृज सद्यस्त्वं विप्रः प्राह बृहस्पतिः
अथो तारासृजद्गर्भं ज्वलन्तमिव पावकम्
ततः संशयमापन्नस्तारामकथयन्सुराः
ह्रीयमाणा यदा देवान्नाह सा साध्वसाधु वा
तं निवार्य तदाब्रह्मा तारां पप्रच्छ संशयम्
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम्
ततः सुतमुपाघ्राय सोमो राजा प्रजापतिः
प्रतिघस्रं च गगने समभ्युत्तिष्ठते बुधः
तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः
प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा
जगाम शरणायाथ पितरं सो ऽत्रिमेव तु
स राजयक्ष्मणा मुक्तः श्रीया जजवाल सर्वशः
वंशं तस्य द्विजश्रेष्ठा कीर्त्यमानं निबोधत
सौम्यस्य चन्म श्रुत्वैवं सर्वपापैः प्रमुच्यते
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सोमसौम्ययोर्जन्मकथनं नाम पञ्चषष्टितमो ऽध्यायः
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः
आहर्त्ता जाग्निहोत्रस्य यज्ञानां च महीपतिः
अतीव त्रिषु लोकेषु रूपेणाप्रतिमो ऽभवत्
उर्वशी वरयामास हित्वा मानं यशस्विनी
सप्त षट्सप्त चाष्टौ च दश चाष्टौ च वीर्यवान्
अलकायां विशालायां नन्दने च वनोत्तमे
उत्तरांश्च कुरून्प्राप्य कलापग्राममेव च
उर्वश्या महितो राजा रेमे परमया मुदा
उत्सृज्य तं च संप्राप्ता तन्नो ब्रूहि च दुष्कृतम्