ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः
समारेभे राजसूयं सहस्रशतदक्षिणम्
सदस्यस्तत्र भगवान्हरिर्नारायणः प्रभुः
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै द्विजाः
कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे
अतिरेजे हि राजेन्द्रो दशधा भासयन्दिशः
विबभ्राम मतिर्विप्रा विनयादनयावृता
जहार सहसा सर्वानवमत्याङ्गिरःसुतान्
नैव व्यसर्जयत्तारां तस्मा अङ्गिरसे तदा
स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः
पार्ष्मिग्राहो ऽभवद्देवः प्रगृह्याजगवं धनुः
उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः
देवानां दानवानां च लोकक्षयकरं महत्
ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम्
ददावाङ्गिरसे तारां स्वयमेत्य पितामहः
गर्भमुत्सृज सद्यस्त्वं विप्रः प्राह बृहस्पतिः
अथो तारासृजद्गर्भं ज्वलन्तमिव पावकम्
ततः संशयमापन्नस्तारामकथयन्सुराः
ह्रीयमाणा यदा देवान्नाह सा साध्वसाधु वा
तं निवार्य तदाब्रह्मा तारां पप्रच्छ संशयम्
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम्
ततः सुतमुपाघ्राय सोमो राजा प्रजापतिः
प्रतिघस्रं च गगने समभ्युत्तिष्ठते बुधः
तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः
प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा
जगाम शरणायाथ पितरं सो ऽत्रिमेव तु
स राजयक्ष्मणा मुक्तः श्रीया जजवाल सर्वशः
वंशं तस्य द्विजश्रेष्ठा कीर्त्यमानं निबोधत
सौम्यस्य चन्म श्रुत्वैवं सर्वपापैः प्रमुच्यते