तत्रात्रिः सर्वलोकानां तस्थौ स्वेनौजसा वृतः
काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम्
सोमत्वं तनुरापेदे महाबुद्धिः स वै द्विजः
नेत्राभ्या मस्रवत्सोमो दशधा द्योतयन् दिशः
समेत्य धारयामासुर्न च ताः समशक्नुवन्
पपात भासयंल्लोकाञ्छीतांशुः सर्वभावनः
ततः सहाभिः शीतांशुर्निपपात वसुंधराम्
रथमारोपयामास लोकानां हितकाम्यया
युक्ते वाजिसहस्रेण रथे ऽध्यास्तेति नःश्रुतम्
तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त विश्रुताः
ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि
आप्यायमानं लोकांस्त्रीन्भावयामास सर्वशः
त्रिःसप्तकृत्वो ऽतियशाश्चकाराभिप्रदक्षिणम्
ओषध्यस्ताः समुद्भूतास्तेजसा खं ज्वलत्युत
पोष्टा हि भगवान्सोमो जगतो हि द्विजोत्तमाः
तवस्तेपे महाभागः समानां नवतीर्दश
विभुस्तासां मुदा सोमः प्रख्यातःस्वेन कर्मणा
बीजौषधीनां विप्राणामपां च द्विजसत्तमाः
लोकान्वै भावयामास तेजस्वी तपतां वरः
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः
समारेभे राजसूयं सहस्रशतदक्षिणम्
सदस्यस्तत्र भगवान्हरिर्नारायणः प्रभुः
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै द्विजाः
कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे
अतिरेजे हि राजेन्द्रो दशधा भासयन्दिशः
विबभ्राम मतिर्विप्रा विनयादनयावृता
जहार सहसा सर्वानवमत्याङ्गिरःसुतान्
नैव व्यसर्जयत्तारां तस्मा अङ्गिरसे तदा