कथं सीता समुत्पन्न कृष्यमाण यशस्विनी
अग्निक्षेत्रे कृष्यमाणे अश्वमेधे महात्मनः
सीरध्वजानुजातस्तु भानुमान्नाम मैथिलः
तस्य भानुमतः पुत्रः प्रद्युम्नश्च पतापवान्
ऊर्जवहात्सनद्वाजः शकुनिस्तस्य चात्मजः
सुतोपस्तस्य दायादः सुश्रुतस्तस्य चात्मजः
विजयस्य क्रतुः पुत्र- क्रतोश्च सुनयः स्मतः
धृतेस्तु बहुलाश्वो ऽभूद्बहुलाश्वसुतः कृतिः
इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत
एति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीये उपोद्धातपादे निमिवंशानुकीर्तनं नाम चतुःषष्टितमो ऽध्यायः
तत्रात्रिः सर्वलोकानां तस्थौ स्वेनौजसा वृतः
काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम्
सोमत्वं तनुरापेदे महाबुद्धिः स वै द्विजः
नेत्राभ्या मस्रवत्सोमो दशधा द्योतयन् दिशः
समेत्य धारयामासुर्न च ताः समशक्नुवन्
पपात भासयंल्लोकाञ्छीतांशुः सर्वभावनः
ततः सहाभिः शीतांशुर्निपपात वसुंधराम्
रथमारोपयामास लोकानां हितकाम्यया
युक्ते वाजिसहस्रेण रथे ऽध्यास्तेति नःश्रुतम्
तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त विश्रुताः
ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि
आप्यायमानं लोकांस्त्रीन्भावयामास सर्वशः
त्रिःसप्तकृत्वो ऽतियशाश्चकाराभिप्रदक्षिणम्
ओषध्यस्ताः समुद्भूतास्तेजसा खं ज्वलत्युत
पोष्टा हि भगवान्सोमो जगतो हि द्विजोत्तमाः
तवस्तेपे महाभागः समानां नवतीर्दश
विभुस्तासां मुदा सोमः प्रख्यातःस्वेन कर्मणा
बीजौषधीनां विप्राणामपां च द्विजसत्तमाः
लोकान्वै भावयामास तेजस्वी तपतां वरः