आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः
दलस्तस्यात्मजश्चापि तस्माज्जज्ञे बलो नृपः
वज्रनाभः सुतस्तस्य शङ्खणस्तस्य चात्मजः
व्युषिताश्वसुतश्चापि राजा विश्वसहः किल
पौष्यञ्जेश्च स वै शिष्यः स्मृतः प्राच्येषु सामसु
तस्मादधिगतो योगो याज्ञवल्क्येन धीमता
सुदर्शनस्तस्य सुतो ह्यग्निवर्मः सुदर्शनात्
मरुस्तु योगमास्थाय कलापग्राममास्थितः
प्रभुसुतो मरोः पुत्रः सुसंधिस्तस्य चात्मजः
आसीत्सहस्वतः पुत्रो राजा विश्रुतवानिति
एते हीक्ष्वाकुदायादा राजानः शतशः स्मृताः
पठन्सम्यगिमां सृष्टिमादित्यस्य विवस्वतः
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च
विपाप्मा विरजाश्चैव आयुष्माञ्जायते ऽच्युतः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धात पादे भार्गवचरिते इक्ष्वाकुवंशकीर्त्तनं नाम त्रिषष्टितमो ऽध्यायः
यो ऽसौ निवेशयामास पुरं देवपुरोपमम्
यस्यान्ववाये जज्ञे वै जनको नृपसत्तमः
आसीत्पुत्रो महाराज चैक्ष्वाकोर्भूरितेजसः
तस्य पुत्रो मिथिर्नाम जनितः पर्वभिस्त्रिभिः
नाम्ना मिथिरिति ख्यातो जननाज्जनको ऽभवत्
राजासौ नाम जनको जनकाच्चा प्युदावसुः
नन्दिवर्धनतः शूरः सुकेतुर्नाम धार्मिकः
देवरातस्य धर्मात्मा बृहदुक्थ इति श्रुतः
महावीर्यस्य धृतिमान् सुधृति स्तस्य चात्मजः
धृष्टकेतुसुतश्चापि हर्यश्वो नाम विश्रुतः
प्रतिंबकस्य धर्मात्मा राजा कीर्त्तिरथः स्मृतः
देवमीढस्य विबुधो विबुधस्य महाधृतिः
कीर्तिरातात्मजो विद्वान् महारोमेति विश्रुतः
स्वर्णरोमात्मजश्चापि ह्रस्वरोमाभवन्नृपः
उद्भिन्ना कर्षता येन सीता राज्ञा यशस्विनी