दिव्याक्षहृदयज्ञो ऽसौ राजा नलसखो बली
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः
सुदासस्तस्य तनयो राजा इन्द्रसखो ऽभवत्
ख्यातः कल्माषपादो वै नाम्ना सित्रसहश्च सः
अश्मकं जनयामास त्विक्ष्वाकुकुलवृद्धये
अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति
विवस्त्रस्त्राणमिच्छन्वै नारीकवच ईश्वरः
तस्माच्छतरथाज्जज्ञे राजा त्विडविडो बली
पुत्रो विश्वसहस्रस्य पुत्रीकस्यां व्यजायत
येन स्वर्गादिहागत्य मुहूर्त्तं प्राप्य जीवितम्
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत
राजा दशरथो नाम इक्ष्वाकुकुलनन्दनः
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः
शत्रुघ्रेन पुरी तत्र मथुरा विनिवेशिता
पालयामासतुस्तौ तु वैदेह्यौ मथुरां पुरीम्
हिमवत्पर्वतस्यान्ते स्फीतौ जनपदौ तयोः
चन्द्रकेतोस्तु विख्याता चन्द्रचक्रा पुरी शुभा
गान्धारविषये सिद्धे तयोः पुर्यो महात्मनोः
पुष्करस्यापि वीरस्य विख्याता पुष्करावती
रामेण बद्धां सत्यार्थां महात्म्यात्तस्य धीमतः
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः
ऋक्सामयजुषां घोषो यो घोषश्च महास्वनः
जनस्थाने वसन्कार्यं त्रिदशानां चकार सः
सीतायाः पदमन्विच्छन्निजघान महायशाः
अतिसूर्यं च वह्निं च रामो दाशरथिर्बभौ
कुशो लव इति ख्यातो तयोर्देशौ निबोधत
रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु
श्रावस्तिर्लोकविख्याता कुशवंशं निबोधत
अतिथेरपि विख्यातो निषधो नाम पार्थिवः
नभसः पुण्डरीकस्तु क्षेम धन्वा ततः स्मृतः