विक्रान्ताः षष्टिसाहस्रा विधिना केन वा वद
ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि
एका जनिष्यते पुत्रं वंशकर्त्तारमीप्सितम्
मुनेस्तु वचनं श्रुत्वा केशिनी पुत्रमेककम्
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तथा
अथ काले गते ज्येष्ठा ज्येष्ठं पुत्रं व्यजायत
सुमतिस्त्वपि जज्ञे वै गर्भतुंबं यशस्विनी
घृतपूर्णेषु कुंभेषु तान्गर्भान्यदधात्ततः
ततो नवसु मासेषु समुत्तस्थुर्यथासुखम्
कालेन महाता चैव यैवनं समुपाश्रिताः
असमञ्ज इति ख्यातो वर्हिकेतुर्महाबलः
तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान्
दिलीपात्तु महातेजा वीरो जातो भगीरथः
इहानीता सुरेशाद्वै दुहितृत्वे च कल्पिता
भगीरथस्तु तां गङ्गामानयामास कर्मभिः
भगीरथसुतश्चापि श्रुतो नाम बभूवह
अम्बरीषः सुतस्तस्य सिंधुद्वीपस्ततो ऽभवत्
नाभागेरंबरीषस्य भुजाभ्यां परिपालिता
अयुतायुः सुतस्तस्य सिंधुद्वीपस्य वीर्यवान्
दिव्याक्षहृदयज्ञो ऽसौ राजा नलसखो बली
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः
सुदासस्तस्य तनयो राजा इन्द्रसखो ऽभवत्
ख्यातः कल्माषपादो वै नाम्ना सित्रसहश्च सः
अश्मकं जनयामास त्विक्ष्वाकुकुलवृद्धये
अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति
विवस्त्रस्त्राणमिच्छन्वै नारीकवच ईश्वरः
तस्माच्छतरथाज्जज्ञे राजा त्विडविडो बली
पुत्रो विश्वसहस्रस्य पुत्रीकस्यां व्यजायत
येन स्वर्गादिहागत्य मुहूर्त्तं प्राप्य जीवितम्