शकानां पह्लवानां च धर्मं निरसदच्युतः
कथं स सगरो राजा गरेण सह जज्ञिवान्
धर्मान्कुलोचितान्क्रुद्धो राजा निरसदच्युतः
हैहयैस्तालजङ्घैश्च शकैः सार्द्धं समागतैः
हैहयार्थं पराक्रान्ता एते पञ्च गणास्तदा
वनं प्रविश्य धर्मात्मा सह पत्न्या तपो ऽचरत्
वृद्धत्वाद्दुर्बलत्वाच्च ह्यन्तरा स ममार च
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया
और्वस्तं भार्गवो दृष्ट्वा कारुण्याद्धि न्यवर्त्तयत्
व्यजायत महाबाहुं सगरं नाम धर्मिकम्
अध्याप्य वेदाञ्छास्त्राणि ततो ऽस्त्रं प्रत्यपादयत्
पह्लवांश्चैव निःशेषान्कर्तुं व्यवसितो नृपः
वसिष्ठं शरणं सर्वे संप्राप्ताः शरणैषिणः
सगरं वारयामास तेषां दत्त्वाभयं तथा
जघान धर्मं वै तेषां वेषान्यत्वं चकार ह
यवनानां शिरः सर्वं कांबोजानां तथैव च
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना
कलिस्पर्शा महिषिका दार्वस्छोलाः खशास्तथा
वसिष्ठवचनात्पूर्वं सगरेण महात्मना
अश्वं वै चारयामास वाजिमेधाय दीक्षितः
वेलासमीपे ऽपहृतो भूमिं चैव प्रवेशितः
आसेदुश्च ततस्तस्मिन्खनन्तस्ते महार्मवे
विष्णुं कपिलरूपेण हंसं नारायणं प्रभुम्
दग्धाः पुत्रास्तदा सर्वेचत्वारस्त्ववशेषिताः
शूरः पञ्चजनश्चैव तस्य वंशकराः प्रभोः
अक्षयत्वं स्ववंशस्य वाजिमेधशतं तथा
तं समुद्रो ऽश्वमादाय ववन्दे सरितांपतिः
तं चाश्वमेधिकं सो ऽश्वं समुद्रात्प्राप्य पार्थिवः
षष्टिं पुत्रसहस्राणि दग्धान्यस्य रुषा विभो
पुत्राणां तु सहस्राणि षष्टिस्तु इति नः श्रुतम्