अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः
देवैः सार्द्धं महातेजानुग्रहात्तस्य धीमतः
कुमारं जनयामास हरिश्चन्द्रमकल्मषम्
अहर्ता राजसूयस्य सम्रडिति परिश्रुतः
हरितो रोहितस्याथ चञ्चुर्हरीत उच्यते
चैता सर्वस्य क्षत्रस्य विजयस्तेन स स्मृतः
रुरुकात्तु वृकः पुत्रस्तस्माद्बाहुर्विजज्ञिवान्
शकैर्यवनकांबोजैः पारदैः पह्लवैस्तथा
सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै
अग्नेयमस्त्रं लब्ध्वा तु भार्गवात्सगरो नृपः
शकानां पह्लवानां च धर्मं निरसदच्युतः
कथं स सगरो राजा गरेण सह जज्ञिवान्
धर्मान्कुलोचितान्क्रुद्धो राजा निरसदच्युतः
हैहयैस्तालजङ्घैश्च शकैः सार्द्धं समागतैः
हैहयार्थं पराक्रान्ता एते पञ्च गणास्तदा
वनं प्रविश्य धर्मात्मा सह पत्न्या तपो ऽचरत्
वृद्धत्वाद्दुर्बलत्वाच्च ह्यन्तरा स ममार च
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया
और्वस्तं भार्गवो दृष्ट्वा कारुण्याद्धि न्यवर्त्तयत्
व्यजायत महाबाहुं सगरं नाम धर्मिकम्
अध्याप्य वेदाञ्छास्त्राणि ततो ऽस्त्रं प्रत्यपादयत्
पह्लवांश्चैव निःशेषान्कर्तुं व्यवसितो नृपः
वसिष्ठं शरणं सर्वे संप्राप्ताः शरणैषिणः
सगरं वारयामास तेषां दत्त्वाभयं तथा
जघान धर्मं वै तेषां वेषान्यत्वं चकार ह
यवनानां शिरः सर्वं कांबोजानां तथैव च
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना
कलिस्पर्शा महिषिका दार्वस्छोलाः खशास्तथा
वसिष्ठवचनात्पूर्वं सगरेण महात्मना
अश्वं वै चारयामास वाजिमेधाय दीक्षितः