याज्योत्थान्यायसंयोगाद्वसिष्ठः पर्यरक्षत
वसिष्ठे ऽभ्यधिकं मन्युं धारयामास मन्युना
न वारयामास मुनिर्वसिष्ठः कारणेन वै
एवं सत्यव्रतस्तां वै हृतवान्सप्तमे पदे
इति सत्यव्रतो रोषं वसिष्ठे मनसाकरोत्
न तु सत्यव्रतो ऽबुध्यदुपांशुव्रतमस्य वै
तेन द्वादश वर्षाणि नावर्षत्पाकशासनः
कुलस्य निष्कृतिः स्वस्य सृतेयं च भवेदिति
अभिषेक्ष्याम्यहं नष्टे पश्चादेनमिति प्रभुः
अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः
तां वै क्रोधाच्च मोहाच्च श्रमच्चैव क्षुधान्वितः
सतु मांसं स्वयं चैव विश्वामित्रस्य चात्मजान्
प्रोवाच चैव भगवान्वसिष्ठस्तं नृपात्मजम्
यदि ते त्रीणि शङ्कूनि न स्युर्हि पुरुषाधम
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः
त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः
ततस्तस्मै वरं प्रादात्तदा प्रीतस्त्रिशङ्कवे
सशरीरो व्रजे स्वर्गमित्येवं याचितो वरः
अभिषिच्य राज्ये पित्र्ये योजयामास तं मुनिः
सशरीरं तदा तं वै दिवमारोपयत्प्रभुः
अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः
देवैः सार्द्धं महातेजानुग्रहात्तस्य धीमतः
कुमारं जनयामास हरिश्चन्द्रमकल्मषम्
अहर्ता राजसूयस्य सम्रडिति परिश्रुतः
हरितो रोहितस्याथ चञ्चुर्हरीत उच्यते
चैता सर्वस्य क्षत्रस्य विजयस्तेन स स्मृतः
रुरुकात्तु वृकः पुत्रस्तस्माद्बाहुर्विजज्ञिवान्
शकैर्यवनकांबोजैः पारदैः पह्लवैस्तथा
सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै
अग्नेयमस्त्रं लब्ध्वा तु भार्गवात्सगरो नृपः