धैन्धुमारिर्दृढाश्वश्च हर्यश्वस्तस्य चात्मजः
संहताश्वो निकुंभस्य सुतो रणविशारदः
तस्य पत्नी हैमवती सती माता दृषद्वती
युवनाश्वसुतस्तस्य त्रिषु लोकेषु विश्रुतः
अभिशस्ता तु सा भर्त्रा नदी सा बाहुदा कृता
मान्धाता यौवनाश्वो वै त्रैलोक्यविजयी नृपः
यावत्सूर्य उदयते यावच्च प्रतितिष्ठति
तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत्
पतिव्रता च ज्येष्ठा च भातॄणामयुतस्य सा
पुरुकुत्समंबरीषं मुचुकुन्दं च विश्रुतम्
नर्मदायां समुत्पन्नः संभूतस्तस्य चात्मजः
रावणेन हतो येन त्रैलोक्यं विजितं पुरा
हर्यश्वात्तु दृषद्वत्यां जज्ञे च सुमतिर्नृपः
आसीत्त्रिधन्वनश्चापि विद्वांस्त्रय्यारुणिः प्रभुः
तेन भार्या विदर्भस्य त्दृता हत्वा दिवौकसः
कामाद्बलाच्च मोहाच्च संहर्षेण बलेन च
तमधर्मेण संयुक्तं पिता भय्यारुणो ऽत्यजत्
पितरं सो ऽब्रवीदेकः क्व गच्छामीति वै मुहुः
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन
न चैनं वारयामास वसिष्ठो भगवानृषिः
पित्रा त्यक्तो ऽवसद्धीरः पिता चास्य वनं ययौ
समा द्वादश संपूर्मास्तेनाधर्मेण वै तदा
संन्यस्य सागरानूपे चचार विपुलं तपः
शिष्टानां भरणार्थाय व्यक्रीणाद्गोशतेन वै
महर्षिपुत्रं धर्मात्मा मोक्षयामास सुव्रतः
विश्वामित्रस्य तुष्ट्यर्थमनुकंपार्थमेव च
महर्षिः कौशिकस्तात तेन वीरेण मोक्षितः
विश्वामित्रकलत्रं च बभार विनये स्थितः
विश्वामित्राश्रमाभ्यासे तन्मांसमनयत्ततः
पितुर्नियोगादभजन्नृपे तु वनमास्थिते