त्वं हि तस्य वधार्थाय समर्थः पृथिवीपते
न हि धुन्धुर्महावीर्यस्तेजसाल्पेन शाक्यते
वीर्यं हि सुमहत्तस्य देवैरपि दुरासदम्
कुवलाश्वं तु तं प्रादात्तस्मिन् धुन्धुनिवारणे
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः
जगाम स वनायैव तपसे शंसितव्रतः
सहक्रैरेकविंशत्या पुत्राणां सह पार्थिवः
तमाविशत्ततो विष्णुर्भगवान्स्वेन तेजसा
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्
दिव्यैः पुष्पैश्च तं देवाः संमतात्समवाकिरन्
स गत्वा पुरुषव्याघ्रस्तनयैः सह वीर्यवान्
तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव
सोमस्य सो ऽसुरश्रेष्ठो धारोर्मिकलिलो महान्
ततः स राजातिबलो राक्षसं तं महाबलम्
तस्य वारिमयं वेगमपि वत्स नराधिपः
निरस्यन्तं महाकायं बलेनोदकराक्षसम्
उत्तङ्कश्च वरं प्रादात्तस्मै राज्ञे महात्मने
धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम्
तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते
धैन्धुमारिर्दृढाश्वश्च हर्यश्वस्तस्य चात्मजः
संहताश्वो निकुंभस्य सुतो रणविशारदः
तस्य पत्नी हैमवती सती माता दृषद्वती
युवनाश्वसुतस्तस्य त्रिषु लोकेषु विश्रुतः
अभिशस्ता तु सा भर्त्रा नदी सा बाहुदा कृता
मान्धाता यौवनाश्वो वै त्रैलोक्यविजयी नृपः
यावत्सूर्य उदयते यावच्च प्रतितिष्ठति
तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत्
पतिव्रता च ज्येष्ठा च भातॄणामयुतस्य सा
पुरुकुत्समंबरीषं मुचुकुन्दं च विश्रुतम्