ज्ञात्वैवमेतदाख्यानं ना विधिर्भक्षयेद्बुधः
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः
इन्द्रस्य वृषभूतस्य ककुत्स्थो जयते पुरा
अनेनास्तु ककुत्स्थस्य पृथुश्चानेन स स्मृतः
अन्ध्रात्तु युवनाश्वस्तु शावस्तस्तस्य चात्मजः
श्रावस्तस्य तु दायादो बृहदश्वो महायशाः
यस्तु धुन्धुवधाद्राजा धुन्धुमारत्वमागतः
यदर्थं कुवलाश्वस्य धुन्धुमारत्वमागतम्
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः
कुवलाश्वं महावीर्यं शूरमुत्तमधार्मिकम्
पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह
प्रयास्यन्तमुतङ्कस्तु ब्रह्मर्षिः प्रत्यवारयत्
निरुद्विग्नस्तपस्छर्तुं न हि शक्रो ऽपि पार्थिव
समुद्रो वालुकापूर्णस्तत्र तिष्ठति भूपते
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान्
शेते लोकविनाशाय तप आस्थाय दारुणम्
यदा तदा मही तत्र चलति स्म सकानना
आदित्यपथमावृत्य सप्ताहं भूमिकंपनम्
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे
तेजस्ते सुमहद्विष्मुस्तेजसाप्याययिष्यति
त्वं हि तस्य वधार्थाय समर्थः पृथिवीपते
न हि धुन्धुर्महावीर्यस्तेजसाल्पेन शाक्यते
वीर्यं हि सुमहत्तस्य देवैरपि दुरासदम्
कुवलाश्वं तु तं प्रादात्तस्मिन् धुन्धुनिवारणे
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः
जगाम स वनायैव तपसे शंसितव्रतः
सहक्रैरेकविंशत्या पुत्राणां सह पार्थिवः
तमाविशत्ततो विष्णुर्भगवान्स्वेन तेजसा
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्
दिव्यैः पुष्पैश्च तं देवाः संमतात्समवाकिरन्