संख्यापनोपहूतांवैतत्रपानमिति स्मृतम्
पूर्वमष्ठतीटती नद्वितीयं चापरान्तिकैः
चतुर्थमुत्तरं चैवमद्रवत्पावमद्रकौ
सर्वमेवानुयोगं तु द्वितीयं बुद्धिमिष्यते
एकत्वं मुनुयोगस्य द्वयोर्यद्यद्द्विजोत्तम
तिसृणां चैव वृत्तीनां वृत्तौ वृत्ते च दक्षिणः
कस्यनासुतराचैव स्वरशाखा प्रकीर्त्तिता
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते गान्धर्वलक्षणं नाम द्विषष्टितमो ऽध्यायः
त्दृता पुण्यजनैः सर्वा राक्षसैः साकुशस्थली
निबध्यमानं नाराचैर्विदिशः प्राद्रवद्भयात्
अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्तमाः
धृष्टस्य धर्ष्टिकं सर्वं रणधृष्टं बभूव ह
नभगस्य च दायादो नाभादो नाम वीर्यवान्
पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः
रथीतराणां प्रवराः क्षेत्रोपेता द्विजातयः
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिमम्
शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशतस्तु ते
चत्वारिंशत्तथाष्टौ च दक्षिणस्यां तु वै दिशि
इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथा दिशत्
श्राद्धं मम तु कर्त्तव्यमष्टकानां न संशयः
मृगान्सहस्रकान्हत्वा परिश्रान्तश्च वीर्यवान्
आगते हि विकुक्षै तु समांसे महसैनिके
तथेति चोदितो राज्ञा विधिवत्तदुपस्थितम्
अनेनोपहतं मांसं पुत्रेण तव पार्थिव
शशो दुरात्मना पूर्वममना भक्षितो ऽनघ
इक्ष्वाकुस्तु ततः क्रुद्धो विकुक्षिमिदमब्रवीत्
शशं भक्षयसे ऽरण्ये निर्घृणः पूर्वमद्य तु
एवमिक्ष्वाकुणा त्यक्तो वसिष्ठवचनात्सुतः
प्राप्तः परगधर्मात्मा स चायोध्याधिपो ऽभवत्
ततस्तेनैनसा पूर्णो राज्यावस्थो महीपतिः