प्रथमः संप्रयोगः स कल्पादौ समवर्त्तत
सम्राट् सशतरूपस्तु वैराजस्तु मनुः स्मृतः
वैराजात्पुरुषाद्वीरौ शतरूपा व्यजायत
कन्ये द्वे सुमहाभागे याभ्यां जाता इमाः प्रजाः
स्वायंभुवः प्रसूतिं तु दक्षाय व्यसृजत्प्रभुः
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम्
यज्ञस्य दक्षिणायां च पुत्रा द्वादश जज्ञिरे
यमस्य पुत्रा यज्ञस्य तस्माद्यामास्तु ते स्मृताः
यामाः पूर्वं परिक्रान्ता येषां संज्ञा दिवौकसः
तस्यां कन्याश्चतुर्विंशद्दक्षस्त्वजनयत्प्रभुः
योगपत्न्यश्च ताः सर्वाः सर्वास्ता योगमातरः
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः
यान्याः शिष्टा यवीयस्य एकादश सुलोचनाः
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा
रुद्रो भृगुर्मरीचिश्च अङ्गिराः पुलहः क्रतुः
सतीं भवाय प्रायच्छत्ख्यातिं च भृगवे तथा
प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च
ऊर्जां ददौ वसिष्ठाय स्वाहां चैवाग्नये ददौ
एताः सर्वा महाभागाः प्रजास्त्वनुसृताः स्थिताः
श्रद्धा कामं प्रजज्ञे ऽथ दर्पो लक्ष्मी सुतः स्मृतः
पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा
बुद्धेर्बोधः सुतश्चापि अप्रमादश्च तावुभौ
क्षेमः शान्तेः सुतश्चापि सुखं सिद्धेर्व्यजायत
कामस्य तु सुतो हर्षो देव्यां सिद्ध्यां व्यजायत
जज्ञे हिंसा त्वधर्माद्वै निकृतिं चानृतं च ते
माया च वेदना चापि मिथुनद्वयमेतयोः
वेदनायां ततश्चापि जेज्ञ दुःखं तु रौरवात्
दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः
इत्येष तामसः सर्गो जज्ञे धर्मनिया मकः