प्रक्षिप्तमेव कलयाचोपादानारयो भवेत्
उच्चराद्विश्वरारूढातथायाष्टस्वरातथा
एकान्तरं च ह्येतेवैतमेवस्वरसत्तमः
अलङ्कारा भवन्त्येते त्रिंशद्देवैः प्रकीर्त्तिताः
संस्थानं च प्रमाणं च विकारो लक्षणस्तथा
यथात्मनो ह्यलङ्कारो विपयस्तो विगर्हितः
नानाभरणसंयोगा यथा नार्या विभूषणम्
न पादे कुण्डलं दृष्टं न कण्ठे रसना तथा
क्रियमाणो ऽप्यलङ्कारो नागं यश्चैव दर्शयत्
लक्षणंपर्यवस्यापिवर्त्तिका मपिवर्त्तते
त्रयोविंशतिशीतिस्तु विज्ञातपवदैवतम्
तयोर्विभागो देवानां लावण्ये मार्गसंस्थितः
विपर्ययः संवर्त्तो च सप्तस्वरपदक्रमम्
पञ्चमंमध्यमञ्चैवधैवतं तु निषादतः
द्वेव्द्यपरतुकिंविद्याद्द्वयमुष्णन्तिकस्यतु
पदस्यात्ययरूपन्तुसप्तरूपन्तुकौशिकीम्
एषचैवक्रमोद्दिष्टोमध्यमांशस्य मध्यमः
ततः सप्तस्वरङ्कार्यंसप्तरूपञ्चकौशिकी
द्वितीयामासमात्राणाभिः सर्वाः प्रतिष्ठिताः
तथाहतानोपिडकेयत्रमायांनिवर्त्तते
संख्यापनोपहूतांवैतत्रपानमिति स्मृतम्
पूर्वमष्ठतीटती नद्वितीयं चापरान्तिकैः
चतुर्थमुत्तरं चैवमद्रवत्पावमद्रकौ
सर्वमेवानुयोगं तु द्वितीयं बुद्धिमिष्यते
एकत्वं मुनुयोगस्य द्वयोर्यद्यद्द्विजोत्तम
तिसृणां चैव वृत्तीनां वृत्तौ वृत्ते च दक्षिणः
कस्यनासुतराचैव स्वरशाखा प्रकीर्त्तिता
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते गान्धर्वलक्षणं नाम द्विषष्टितमो ऽध्यायः
त्दृता पुण्यजनैः सर्वा राक्षसैः साकुशस्थली
निबध्यमानं नाराचैर्विदिशः प्राद्रवद्भयात्