नग्निं च पौषा वै देव दृष्ट्वा काञ्च यथाक्रमः
उत्तरं मन्द्रा रजनी तथा वाचोन्नरायताः
गान्धारग्रामिका श्यामा कीर्तिमाना निबोधत
यवरातसूयस्तु षष्ठवत्तु सुवर्मकम्
नागयक्षाश्रयं विद्वान् तद्गोत्तरतथैव च
सूर्यकान्तधरेण्यैव संतकोकिलविश्रुतः
सावित्रमर्धसावित्रं सर्वतोभद्रमेव च
अलंबुषेसेष्टमथो विष्णुवैणवरावुभौ
हतोत्सृष्टो विजानीत स्कन्धं तु प्रियमेव च
अलंबुसेष्टस्य तथा नारदप्रिय एव च
विकलोपनीतविनताश्रीराख्यो भार्गवप्रियः
ससौवीरां सुसोवीरा ब्रह्मणो ह्यपगीयते
हरिदेशसमुत्पन्ना हरिणस्याव्यजायत
करोपनीता विवृतावनुद्रिः स्वरमण्डले
मनुदेशाः समुत्पन्ना मूर्च्छनाशुद्धमात्मना
सावश्रमसमाद्युम्ना अनेकापौरुषानखान्
तानि उत्तर मद्रांसपद्गदैवतकं विदुः
तमोदुत्तरमैद्रोयदेवतास्याद्रुवेन च
स्यादिजमूर्छनाह्येच पितरः श्राद्धदेवताः
उपैति तस्मान्नजानी याच्छुद्धयच्छिकरासभा
पक्षिणां मूर्छनाः श्रुत्वा पक्षोका मूर्छनाः स्मृताः
नानासाधारमश्चैववडवात्रिविदस्तथा
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे गान्धर्वमूर्छनालक्षणवर्णनं नामैकषष्टितमो ऽध्यायः
विख्यातान्वै अलङ्कारांस्तन्मे निगदतः श्रुणु
संस्था नयोगैश्च तथा सदा नाढ्याद्यवेक्षया
पदानि गीतकस्याहुः पुरस्तात्पृष्ठतो ऽथ वा
एतेषु त्रिषु स्थानेषु प्रवृत्तो विधिरुत्तमः
विकल्पमष्टधा चैव देवाः षोडशधा विदुः
आरोहणं चतुर्थं तु वर्णं वर्मविदो विदुः
अवरोहणवर्णानामवरोहं विनिर्दिशेत्