करूषस्य तु कारूषाः क्षत्त्रिया युद्धदुर्मदाः
नाभागो दिष्टपुत्रस्तु विद्वानासीद्भलन्दनः
प्रांशोरेको ऽभवत्पुत्रः प्रजापतिसमो नृपः
विवादो ऽत्र महानासीत्संवर्त्तस्य बृहस्पतेः
संवर्त्तेन तते यज्ञे चुकोप स भृशं तदा
मरुत्तश्चक्रवर्त्ती स नरिष्यन्तमवासवान्
तस्य पुत्रस्तु विज्ञातो राजासीद्राष्ट्रवर्द्धनः
केवलस्य पुत्रस्तु बन्धुमान्केवलात्मजः
बुधो वेगवतः पुत्रस्तृणबिन्दुर्बुधात्मजः
कन्या तु तस्येडविडामाता विश्रवसो हि सा
दाश्वान्प्रख्यातवीर्य्यौजा विशाला येन निर्मिता
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः
धूम्राश्वतनयो विद्वान्सृंजयः समपद्यत
कृशाश्वः सहदेवस्य पुत्रः परमधार्मिकः
सोमदत्तस्य राजर्षेः सुतो ऽभूज्जनमेजयः
तृणबिन्दुप्रभावेण सर्वे वैशालका नृपाः
शर्यातेर्मिथुनं त्वासीदानर्त्तो नाम विश्रुतः
आनर्त्तस्य तु दायादो रेवो नाम सुवीर्यवान्
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः
कन्यया सह श्रुत्वा च गान्धर्वं ब्रह्मणोंऽतिके
आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम्
भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः
दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः
तां कथामृषयः श्रुत्वा पप्रच्छुक्तदनन्तरम्
एतच्छुश्रूषमाणान्नो गान्धर्वं वद चैव हि
न च रोगः प्रभवति ब्रह्मलोकं गतस्य ह
ततो ऽहं संप्रवक्ष्यामि याथातथ्येन सुव्रताः
तानाश्चैकोनपञ्चाशदित्येत्स्वरमण्डलम्
धैवतश्चापि विज्ञेयस्तथा चापि निषादकः
सौवीरा मध्यमा ग्रामा हरिणाश्च तथैव च