यदा तैरिह सृष्टैस्तु धर्म्माद्यैश्च महर्षिभिः
तमोमात्रावृतः सो ऽभूच्छोकप्रतिहतश्च वै
पुत्राणां च तमोमात्रा अपरा निःसृताभवत्
ततः प्रतिहते तस्य प्रतीते वरणात्मके
द्विधा कृत्वा स्वकं देहमर्द्धेन पुरुषो ऽभवत्
प्रकृतिर्भूतधात्री सा कामाद्वै सृजतः प्रभोः
ब्रह्माणः सा तनुः पूर्वा दिवमावृत्य तिष्टतः
सा देवी नियुतं तप्त्वा तपः परम दुश्चरम्
स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते
लब्ध्वा तु पुरुषः पत्नीं शतरूपामयोनिजाम्
प्रथमः संप्रयोगः स कल्पादौ समवर्त्तत
सम्राट् सशतरूपस्तु वैराजस्तु मनुः स्मृतः
वैराजात्पुरुषाद्वीरौ शतरूपा व्यजायत
कन्ये द्वे सुमहाभागे याभ्यां जाता इमाः प्रजाः
स्वायंभुवः प्रसूतिं तु दक्षाय व्यसृजत्प्रभुः
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम्
यज्ञस्य दक्षिणायां च पुत्रा द्वादश जज्ञिरे
यमस्य पुत्रा यज्ञस्य तस्माद्यामास्तु ते स्मृताः
यामाः पूर्वं परिक्रान्ता येषां संज्ञा दिवौकसः
तस्यां कन्याश्चतुर्विंशद्दक्षस्त्वजनयत्प्रभुः
योगपत्न्यश्च ताः सर्वाः सर्वास्ता योगमातरः
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः
यान्याः शिष्टा यवीयस्य एकादश सुलोचनाः
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा
रुद्रो भृगुर्मरीचिश्च अङ्गिराः पुलहः क्रतुः
सतीं भवाय प्रायच्छत्ख्यातिं च भृगवे तथा
प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च
ऊर्जां ददौ वसिष्ठाय स्वाहां चैवाग्नये ददौ
एताः सर्वा महाभागाः प्रजास्त्वनुसृताः स्थिताः