कीर्त्यते धृतसामर्थ्यात्प्रजानां च शुभाशुभम्
कीर्त्यते भगवान्येन प्रसर्प्पति दिवः क्षयम्
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः
वृद्धिक्षयौ च सोमस्य कीर्त्येते सोमकारितौ
कीर्त्यते शिशुमारस्य यस्य पुच्छे ध्रुवः स्थितः
निवासा यत्र कीर्त्यन्ते देवानां पुण्यकर्मणाम्
प्रविभागश्चरश्मीनां नामतः कर्मतीर्थतः
वेश्यारूपात्प्रधानस्य परिमाणो महाद्भवः
पितॄणां द्विप्रकाराणां माहात्म्यं वा मृतस्य च
स्वर्गलोकगतानाञ्च प्राप्तानाञ्चाप्यधोगतिम्
युगसंख्याप्रमाणं च कीर्त्यते च कृतं युगम्
वर्णानामाश्रमाणां च संस्थितिर्धर्मतस्तथा
शब्दत्वं च प्रधानात्तु स्वायम्भुवमृते मनुम्
द्वापरस्य कलेश्चापि संक्षेपेण प्रकीर्त्तनम्
मन्वन्तराणां सर्वेषामेतदेव च लक्षणम्
तथा मन्वन्तराणां च प्रतिसंधानलक्षणम्
ऋषीणां च गतिः प्रोक्ता कालज्ञानगतिस्तथा
त्रेतायां चक्रवर्तीनां लक्षणं जन्म चैव हि
अङ्गुलैर्हासनं चैव भूतानां यच्च चोच्यते
वाक्यं सप्तविधं चैव ऋषिगोत्रानुकीर्तनम्
देदानां व्यसनं चैव वेदव्यासैर्महात्मभिः
मन्वन्तरक्रमश्चैव कालज्ञानं च कीर्त्यते
ब्रह्मादिभिस्तेजनिता दक्षेणैव च धीमता
ध्रुवस्यौत्तानपादस्य प्रजासर्गोपवर्णनम्
प्रभुणा चैव वैन्येन भूमिदोहप्रवर्तता
ब्रह्मादिभिः पूर्वमेव दुग्धा चैयं वसुंधरा
दक्षस्य कीर्त्यत जन्म समस्यांशेन धीमतः
मन्वादिका भविष्यन्ति आख्यानैबर्हुभिर्वृताः
ब्रह्मादिकोश उत्पत्तिर्भृग्वदीनां च कीर्त्यते
दक्षस्य कीर्त्यते सर्गो ध्यानाद्वैवस्वतान्तरे