तथा तु ब्रुवतीं साध्वीमिडामाश्रित्य तावुभौ
अनेन तव धर्मज्ञे प्रश्रयोण दमेन च
आवयोस्त्वं महाभागे ख्यातिं कन्ये प्रयास्यसि
जगत्प्रियो धर्मशीलो मनोर्वंशविवर्द्धनः
सा तु देवी वरं लब्ध्वा निवृत्ता पितरं प्रति
सोमपुत्राद्बुधाच्चास्यामैलो जज्ञे पुरूखाः
सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः
उत्कलस्योत्कलं राष्ट्रं विनतस्यापि पश्चिमम्
प्रविष्टेतु मनौ तस्मिन्प्रजाः सृष्ट्वा दिवाकरम्
इक्ष्वाकुरेव दायादो भागं दशममाप्तवान्
वसिष्ठवचनाच्चासीत्प्रतिष्ठाने महाद्युतिः
मानवः स तु सुद्यम्नः स्त्रीभावमगमत्कथम्
इलावृतं समाजग्मुर्ददृशुर्वृषभध्वजम्
प्रतिजग्मुस्ततः सर्वे व्रीडिताभूच्छिवाप्यथ
इमं ममाश्रमं देव यः पुमान्सं प्रवेक्ष्यति
तत्र सर्वाणि भूतानि पिशाचाः पशवश्च ये
उमावनं प्रविष्टस्तु स राजा मृगयां गतः
महादेवप्रसादाच्च मानवत्वमवाप्तवान्
इति श्रीब्रह्माण्डे महापुराणे मध्यमभागे वायुप्रोक्ते वैवस्वतमनोः सृष्टिर्नाम षष्टितमो ऽध्यायः
पृषध्रो हिंसयित्वा तु गुरोर्गां निशि तत्क्षये
करूषस्य तु कारूषाः क्षत्त्रिया युद्धदुर्मदाः
नाभागो दिष्टपुत्रस्तु विद्वानासीद्भलन्दनः
प्रांशोरेको ऽभवत्पुत्रः प्रजापतिसमो नृपः
विवादो ऽत्र महानासीत्संवर्त्तस्य बृहस्पतेः
संवर्त्तेन तते यज्ञे चुकोप स भृशं तदा
मरुत्तश्चक्रवर्त्ती स नरिष्यन्तमवासवान्
तस्य पुत्रस्तु विज्ञातो राजासीद्राष्ट्रवर्द्धनः
केवलस्य पुत्रस्तु बन्धुमान्केवलात्मजः
बुधो वेगवतः पुत्रस्तृणबिन्दुर्बुधात्मजः
कन्या तु तस्येडविडामाता विश्रवसो हि सा