अनुकूलं भवेदेवं यदि स्यात्समयो मतः
रूपं विवस्वतस्त्वासीत्तिर्यगूर्द्ध्वमधस्तथा
तस्मात्ते समचक्रं तु वर्तते रूपमद्भुतम्
ततो ऽभ्युपागमत्त्वष्टा मार्त्तण्डस्य विवस्वतः
तं निर्मूलित तेजस्कं तेजसापहृतेन तु
ददर्श योगमास्थाय स्वां भार्यां वडवां तथा
अश्वरूपेण मार्त्तण्डस्तां मुखे समभावयत्
सा तं निःसारयामास नोभ्यां शुक्रं विवस्वतः
नासत्यश्चैव दस्रश्च स्मृतौ द्वादशमूर्तितः
तां तु रूपेण कान्तेन दर्शयामास भास्करः
यमस्तु तेन शापेन भृशं पीडितमानसः
सो ऽलभत्कर्मणां तेन शुभेन परमां द्युतिम्
मनुः प्रजापतिस्त्वेष सावर्णिः स महायशाः
मेरुपृष्ठे तपो घोरमद्यापि चरते प्रभुः
त्वष्टा तु तेन रूपेण विष्णोश्चक्रमकल्पयत्
यवीयसी तयोर्या तु यमुनाच यशस्विनी
यस्तु ज्येष्ठो महातेजाः सर्गो यस्येति सांप्रतम्
इदं तु जन्म देवानां शृणुयाद्वा पठेच्च वा
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते तृतीय उपोद्धातपादे वैवस्वतोत्पत्तिर्नामैकोनषष्टितमोध्यायः
वैवस्वताय महते पृथिवीराज्यमादिशत्
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेवच
करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः
यष्टुं प्रजक्रमे कामं हयमेधेन भूपतिः
मित्रावरुणयोरंशे अनलाहुतिमेव यत्
दिव्यासंहनना चैव इला जज्ञ इति श्रुतम्
अनुगच्छस्व भद्रं ते तमिला प्रत्युवाच ह
मित्रावरुणयोरंशे जातास्मि वदतां वर
एवमुक्त्वा पुनर्देवी तयोरन्तिकमागमत्
अंशे ऽस्मिन्युवयोर्जाता देवौ किं करवाणि वाम्