ततो यमो यमी चैव यमजौ संबभूवतुः
असहन्ती स्वकां छायां सवर्णां निर्ममे पुनः
प्राञ्जलिः प्रयता भूत्वा पुनः संज्ञामभाषत
अहं यास्यापि भद्रं ते स्वमेव भवनं पितुः
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी
इमौ च बालकौ मह्यं तथेत्युक्ता तथा च सा
पिता तामागतां दृष्ट्वा क्रुद्धः संज्ञामथाब्रवीत्
अगमद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता
द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्त्य ताम्
पूर्वजस्य मनोस्तुल्यौ सादृश्येन तु तौ प्रभू
श्रुतश्रवा मनुस्ताभ्यां सावर्णिर्वै भविष्यति
मनुरेवाभवत्सो ऽपि सावर्णिरिति चोच्यते
चकाराभ्यधिकं स्नेहं त तथा पूर्वजेषु वै
बहुशो जल्पमानस्तु सापत्न्यादतिदुःखितः
यदा संतर्जयामास च्छायां वैवस्वतो यमः
यदा तर्जयसे ऽकस्मात्पितृभार्यां यशस्विनीम्
यमस्तु तेन शापेन भृशं पीडितमानसः
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विनिर्जितः
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति
तव प्रसादो नस्त्रातुमेतस्मान्महतो भयात्
असंशयं पुत्र महद्भविष्यत्यत्र कारणम्
न शक्यमेतन्मिथ्य तु कर्त्तुं मातुर्वचस्तव
ततः पादं महाप्राज्ञ पुनः सांप्राप्स्यसे सुखम्
शापस्य परिहारेण त्वं च त्रातो भविष्यसि
तुल्येष्वभ्यधिकस्नेह एकस्मिन्क्रियते त्वया
आत्मना स समाधाय योगात्तत्त्वमपश्यत
सा तत्सर्वं यथा तत्त्वमाचचक्षे विवस्वतः
त्वष्टा तु तं यथान्यायमर्चयित्वा विभावसुम्
तवातितेजसा युक्तमिदं रूपं न शोभते
द्रक्ष्यते तां भवनद्य स्वां भार्यां शुभचारिणीम्