यःसर्वेषां विमानानि देवतानां चकार ह
प्रह्रादी विश्रुता तस्य पत्नी त्वष्टुर्विरोचना
देवाचार्यस्य महतो विश्वरूपस्य धीमतः
सुरेणुरिति विख्याता स्वसा तस्य यवीयसी
प्रासूत सा महाभागं मनुं ज्येष्ठं विवस्वतः
सा तु गत्वा कुरून्देवी वडवा रूपधारिणी
प्रासूत सा महाभाग त्वन्तरिक्षे ऽश्विनौ किल
कस्मान्मार्त्तण्ड इत्येष विवस्वानुदितो बुधैः
एतद्वेदितुमिच्छामो सर्वं नो ब्रूहि पृच्छताम्
गर्भवधं भ्रान्तः कश्यपो विद्रुतो भवेत्
नैतन्न्यूनं भवादण्डं मार्त्तण्डस्त्वं भवानघ
तस्य तद्वचनं श्रुत्वा नामान्वर्थमुदाहरन्
तस्माद्विवस्वान्मार्त्तण्डः पुराणज्ञैर्विभाव्यते
विजज्ञे सवितुर्भार्या संज्ञा पुत्रांस्तु त्रीन्पुनः
शनैश्चरं तथैवैते मार्त्तण्डस्यात्मजाः स्मृताः
तस्य संज्ञाभवद्भार्या त्वाष्ट्री देवी विवस्वतः
सा तु भार्या भगवतो मार्त्तण्डस्यातितेजसः
अजानन्कश्यपः स्नेहात् मार्त्तण्ड इति चोच्यते
येनापि तापयामास त्रील्लोङ्कान्कश्यपात्मजः
द्वौ सुतौ तु महावीर्यौं कन्यैका विदितैव च
ततो यमो यमी चैव यमजौ संबभूवतुः
असहन्ती स्वकां छायां सवर्णां निर्ममे पुनः
प्राञ्जलिः प्रयता भूत्वा पुनः संज्ञामभाषत
अहं यास्यापि भद्रं ते स्वमेव भवनं पितुः
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी
इमौ च बालकौ मह्यं तथेत्युक्ता तथा च सा
पिता तामागतां दृष्ट्वा क्रुद्धः संज्ञामथाब्रवीत्
अगमद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता
द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्त्य ताम्
पूर्वजस्य मनोस्तुल्यौ सादृश्येन तु तौ प्रभू