दक्षमत्रिं वसिष्ठं च निर्ममे मानसान्सुतान्
ब्रह्मा यतात्मकानां तु सर्वेषामात्मयोनिनाम्
प्रजापतिं रुचिं चैव पूर्वेषामेव पूर्वजौ
मनसस्तु रुचिर्नाम जज्ञे जो ऽव्यक्तजन्मनः
प्राणाद्दक्षं सृजन्ब्रह्मा चक्षुर्भ्यां तु मरीचिनम्
शिरसोंगिरसं चैव श्रोत्रादत्रिं तथैव च
समानजो वसिष्ठश्च ह्यपानान्निर्ममे क्रतुम्
धर्मस्तेषां प्रथमजो देवतानां स्मृतस्तु वै
गृहमेधिपुराणास्ते धर्मस्तैः प्राक् प्रवर्त्तितः
तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः
यदा तैरिह सृष्टैस्तु धर्म्माद्यैश्च महर्षिभिः
तमोमात्रावृतः सो ऽभूच्छोकप्रतिहतश्च वै
पुत्राणां च तमोमात्रा अपरा निःसृताभवत्
ततः प्रतिहते तस्य प्रतीते वरणात्मके
द्विधा कृत्वा स्वकं देहमर्द्धेन पुरुषो ऽभवत्
प्रकृतिर्भूतधात्री सा कामाद्वै सृजतः प्रभोः
ब्रह्माणः सा तनुः पूर्वा दिवमावृत्य तिष्टतः
सा देवी नियुतं तप्त्वा तपः परम दुश्चरम्
स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते
लब्ध्वा तु पुरुषः पत्नीं शतरूपामयोनिजाम्
प्रथमः संप्रयोगः स कल्पादौ समवर्त्तत
सम्राट् सशतरूपस्तु वैराजस्तु मनुः स्मृतः
वैराजात्पुरुषाद्वीरौ शतरूपा व्यजायत
कन्ये द्वे सुमहाभागे याभ्यां जाता इमाः प्रजाः
स्वायंभुवः प्रसूतिं तु दक्षाय व्यसृजत्प्रभुः
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम्
यज्ञस्य दक्षिणायां च पुत्रा द्वादश जज्ञिरे
यमस्य पुत्रा यज्ञस्य तस्माद्यामास्तु ते स्मृताः
यामाः पूर्वं परिक्रान्ता येषां संज्ञा दिवौकसः
तस्यां कन्याश्चतुर्विंशद्दक्षस्त्वजनयत्प्रभुः