ततः प्रभृति लोकेषु सागराख्यामवाप्तवान्
रामस्य कार्त्तवीर्यस्य सगरस्य महीपतेः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्त मध्यमभागे तृतीय उपाद्धातपादे ऽष्टपञ्चशत्तमो ऽध्यायः
परं शुश्रूषया भूयः पप्रच्छुस्तदनन्तरम्
स्थितिं चैषां प्रभावं च ब्रूहि नः परिपृच्छताम्
शृण्वतामुत्तराख्याने ऋषीणां वाक्य कोविदः
ब्रुवतो मे निबोधंश्च ऋषिराह यथा मम
स्थितिं चैषां प्रभावं च क्रमतो मे निबोधत
तस्याः पुत्रौ कलिर्वैद्यः स्तुता च सुरसुंदरी
वैद्यपुत्रौ घृणिश्चैव मुनिश्चैव महाबलौ
भक्ष्यित्वा तावन्योन्यं विनाशं समवाप्नुतः
स्मृता हिंसा कलेर्भार्या श्रेष्ठा या निकृतस्मृतिः
नाके विघ्नश्च विख्यातो भद्रमोविधमस्तथा
भद्रमश्चैकहस्तो ऽभूद्विधमश्चैकपात्स्मृतः
रेवती विधमस्यापि तयोः पुत्राः सहस्रशः
राक्षसास्तु महावीर्याः संध्याद्वयविचारिमः
ग्रहस्ते राक्षसाः सर्वे बालानां तु विशेषतः
बृहस्पतेर्या भगिनी वरस्त्री ब्रह्मचारिणी
प्रभासस्य तु सा भार्या वसूनामष्टमस्य च
त्वष्टा विराजो रूपाणि धर्मपौत्र उदारधीः
यःसर्वेषां विमानानि देवतानां चकार ह
प्रह्रादी विश्रुता तस्य पत्नी त्वष्टुर्विरोचना
देवाचार्यस्य महतो विश्वरूपस्य धीमतः
सुरेणुरिति विख्याता स्वसा तस्य यवीयसी
प्रासूत सा महाभागं मनुं ज्येष्ठं विवस्वतः
सा तु गत्वा कुरून्देवी वडवा रूपधारिणी
प्रासूत सा महाभाग त्वन्तरिक्षे ऽश्विनौ किल
कस्मान्मार्त्तण्ड इत्येष विवस्वानुदितो बुधैः
एतद्वेदितुमिच्छामो सर्वं नो ब्रूहि पृच्छताम्
गर्भवधं भ्रान्तः कश्यपो विद्रुतो भवेत्