क्षिप्तत्वेन समुद्रे तु दिशमुत्तरपश्चिमाम्
तीर्थं शुर्पारकं नाम सर्वपापविमोचनम्
तीर्थं तदन्तरीकृत्य स्रुवो रामकराच्च्युतः
यत्राभूद्रामसृष्टाया भुवो निष्ठाथ पार्थिव
उत्सारयित्वा सलिलं समुद्रस्तावदात्मनः
अनतिक्रान्तमर्यादो यथाकालं भृगूद्वहः
विज्ञाय पूर्वसीमान्तां भुवमभ्युत्ससर्ज ह
नगरग्रमसीमानः किञ्चित्किञ्चित्क्वचित्क्वचित्
तत्र दैवात्तथा स्थानान्निम्नत्वात्स प्रलक्ष्य तु
यथाभिलषितं स्थानं प्रददौ प्रीतिपूर्वकम्
कृतकृत्या भृशं राममाशिषा समपूजयन्
गते मुनिवरे रामे देशात्तस्मान्निजाश्रमम्
परिचङ्क्रम्य तां भूमिं यत्नेन महातान्विताः
नित्यत्वा त्सर्वदेवानामधिष्ठानतया तथा
अपि रुद्रप्रभावेम प्रायान्नात्यन्तविप्लवम्
एतद्धि देवसामर्थ्यमचिन्त्यं नृपसत्तम
दक्षिणोत्तरतो राजनयोजनानां चतुःशतम्
कृतं रामेण महता न तु सज्जं महद्धनुः
यस्य पुत्रैरयं खण्डो भारतो ऽब्धौ निपतितः
रामेणाभूत्पुनः सृष्टं योजनानां तु षट्शतम्
ततः प्रभृति लोकेषु सागराख्यामवाप्तवान्
रामस्य कार्त्तवीर्यस्य सगरस्य महीपतेः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्त मध्यमभागे तृतीय उपाद्धातपादे ऽष्टपञ्चशत्तमो ऽध्यायः
परं शुश्रूषया भूयः पप्रच्छुस्तदनन्तरम्
स्थितिं चैषां प्रभावं च ब्रूहि नः परिपृच्छताम्
शृण्वतामुत्तराख्याने ऋषीणां वाक्य कोविदः
ब्रुवतो मे निबोधंश्च ऋषिराह यथा मम
स्थितिं चैषां प्रभावं च क्रमतो मे निबोधत
तस्याः पुत्रौ कलिर्वैद्यः स्तुता च सुरसुंदरी
वैद्यपुत्रौ घृणिश्चैव मुनिश्चैव महाबलौ