उत्पतन्निपतत्ताम्यन्नानासत्त्वोद्धतोर्मिभिः
त्रासरासं च विपुलमंभसा प्लवता सह
ततस्तस्माच्छराज्ज्वालाः फूत्कृताशेष भीषणाः
ततः प्रचण्डपवनैः सर्वतः परिवर्त्तितम्
प्रलयाब्धेरिवात्यर्थमस्त्राग्निव्याकुलांभसः
अस्त्राग्निविद्धाकुलितजलघोषेण भूयसा
परितो ऽस्त्रानलज्वालापरिवीतजलाविलः
आकर्णाकृष्टकोदण्डं दृष्ट्वा रामं पयोनिधिः
भयकंपितसर्वाङ्गस्ततो नदनदीपतिः
ततः स्वरूपमास्थाय सर्वाभरणभूषितः
कृताञ्जलिः सार्वहस्तः प्रचेता भार्गवान्तिकम्
अभ्येत्याकृष्टधनुषः स तस्य चरणाब्जयोः
रक्ष मां भृगुशार्दूल कृपया शरणागतम्
स्थितो ऽस्मि तव निर्देशेशाधि किं करवाणि वै
इति श्रीब्रह्माण्डे महापुराणे मध्यमभागे तृतीये उपोद्धातपादे भार्गवं प्रति वरुणागमनं नाम सप्तपञ्चशत्तमो ऽध्यायः
संजहार पुनर्धीमानस्त्रं मृगुकुलोद्वहः
विलोक्य बिगतक्रोधस्तमुवाच हसन्निव
समायाता महेन्द्राद्रौ निवसंतं सरित्पते
अधो निपातितं क्षेत्रं गोकर्णमृषिसेवितम्
अधावन्मामुपागम्य मुनयस्तीर्थवासिनः
भवन्तमागतो द्रष्टुं सहैभिर्मुनिपुङ्गवैः
दातुमर्हति तत्क्षेत्रमेषां तोये च पूर्ववत्
निरूप्य मनसा राममिद भूयो ऽब्रवीद्वचः
तथा हि मे वरो दत्तः पुरानेन विरिञ्चिना
कातरं समुपायातो वशतां तव भार्गव
कथं न कुर्यां कर्मेदमहं क्षत्त्रकुलान्तक
तावत्संघारयिष्यामि भूमौ सलिलमात्मनः
यथागतं प्रचिक्षेप धनुर्निर्भिद्य भार्गवः
स्रुवं जग्राह मतिमान्क्षप्तुकामो जलाशये
अन्तर्हिते सरिन्नाथे रामः सुवमुदङ्मुखः