ततः प्रणम्य मनसा शर्वं रामो महाद्धनुः
अभिमृश्य धनुःश्रेष्ठं सगुणं भृगुसत्तमः
ज्याघोषः शुश्रुवे तस्य दिविस्पृगतिनिष्ठुरः
ततः सरभसं रामश्चापे कालानलोपमम्
तस्मिन्नस्त्रं महाघोरं भार्गवं वह्निदैवतम्
ततश्चचाल वसुधा सशैलवनकानना
संधितास्त्रं भृगुश्रेष्ठं क्रोधसंरक्तलोचनम्
सदिग्दाहभ्रपटलैरभवन्संवृता दिशः
मन्दरश्मिरशीतांशुरभूतसंरक्तमण्डलः
किमेतदिति संभ्रान्ता धूमोद्गारातिभीषणम्
धनुर्विकर्षमाणं तं स्फुरज्ज्वालाग्रसायकम्
आकर्णाकृष्टकोदण्डमण्डलाभ्यं तरस्थितम्
विकृष्टधनुषस्तस्य रूपमुग्रं रवेरिव
कल्पान्ताग्नसमज्वालाभीषणं स्फुरतो वपुः
स्फुरत्क्रोधानलज्वालापरीतस्यातिरौद्रताम्
वपुर्विकृष्टचापस्य भृकुटीकुटिलाननम्
जाज्वल्यमानवपुषं तं दृष्ट्वा सहसा भयात्
ततो ऽस्त्राग्निस्फुरद्धूमपटलैः शकलीकृतम्
ज्वलदस्त्रानलज्वालाप रितापपराहतः
तिमिङ्गिलतिमिग्राहनक्रमत्स्याहिकच्छपाः
उत्पतन्निपतत्ताम्यन्नानासत्त्वोद्धतोर्मिभिः
त्रासरासं च विपुलमंभसा प्लवता सह
ततस्तस्माच्छराज्ज्वालाः फूत्कृताशेष भीषणाः
ततः प्रचण्डपवनैः सर्वतः परिवर्त्तितम्
प्रलयाब्धेरिवात्यर्थमस्त्राग्निव्याकुलांभसः
अस्त्राग्निविद्धाकुलितजलघोषेण भूयसा
परितो ऽस्त्रानलज्वालापरिवीतजलाविलः
आकर्णाकृष्टकोदण्डं दृष्ट्वा रामं पयोनिधिः
भयकंपितसर्वाङ्गस्ततो नदनदीपतिः
ततः स्वरूपमास्थाय सर्वाभरणभूषितः