किङ्कर्त्तव्यं मयात्रेति मम डोलायते मनः
तन्नच्यावयते सत्यद्यथोक्तं ब्रह्मणा पुरा
धर्म एव महांस्तेन चरितस्ते भविष्यति
तमनुद्रुत्य मेधावी धर्ममुद्दिश्य केवलम्
समुद्दिश्य चचौ राजन्द्रष्टुकामः सरित्पतिम्
तत्परं सरितां पत्युस्तीरं प्राप महामनाः
आकरं सर्वरत्नानां पूर्यमाणमनारतम्
दुष्पारपारं सर्वस्य विविधग्रहसंहतिम्
आत्मानमिव चात्मत्वे न्यक्कृताखिलमुद्धतम्
अत्यर्थचपलोत्तुगतरङ्गशतमालिनम्
विशीर्यमाणलहरीशतफेनौघसोभितम्
संसेव्यमानस्तरलैर्लहरीकणशीतलैः
विशश्रमे महाबाहुर्द्रष्टुकामः प्रचेतसम्
मेघगंभिरया वाचा वरुणं वाक्यमब्रवीत्
तस्मात्स्वरूपधृङ्मह्यं प्रचेतो देहि दर्शनम्
न चचाल निजस्थानान्नृप धीरतरस्त्वयम्
न ददौ दर्शनं तस्मै प्रतिवाच्यं च नाभ्यधात्
अत्यन्तमिति कार्यार्थी विदुषा समुपेक्षितम्
चुकोप तमभिप्रेक्ष्य रामः शस्त्रभृतां वरः
निस्तोयमर्णवं कर्तुमियेष रुषितो भृशम्
ततः प्रणम्य मनसा शर्वं रामो महाद्धनुः
अभिमृश्य धनुःश्रेष्ठं सगुणं भृगुसत्तमः
ज्याघोषः शुश्रुवे तस्य दिविस्पृगतिनिष्ठुरः
ततः सरभसं रामश्चापे कालानलोपमम्
तस्मिन्नस्त्रं महाघोरं भार्गवं वह्निदैवतम्
ततश्चचाल वसुधा सशैलवनकानना
संधितास्त्रं भृगुश्रेष्ठं क्रोधसंरक्तलोचनम्
सदिग्दाहभ्रपटलैरभवन्संवृता दिशः
मन्दरश्मिरशीतांशुरभूतसंरक्तमण्डलः
किमेतदिति संभ्रान्ता धूमोद्गारातिभीषणम्