अथास्य सृजतः सर्गं प्रजानां परिवृद्धये
ततः स विदधे बुद्धिमर्थनिश्चयगा मिनीम्
रजः सत्त्वं परित्यज्य वर्तमानां स्वकर्मतः
तमश्च व्यनुदत्पश्चाद् रजसातु समावृणोत्
अधर्माचरणा त्तस्य हिंसा शोको व्यजायत
ततः स भगवानासीत् प्रीतश्चैतं हि शिश्रिये
नारी परमकल्याणी सर्वभूतमनोहरा
शतरूपेति सा प्रोक्ता सा प्रोक्तैव पुनः पुनः
प्रक्रियायां यथा तुभ्यं त्रेतामध्ये महात्मनः
ततो ऽन्यान्मानसान्पुत्रानात्मनः सदृशो ऽसृजत
दक्षमत्रिं वसिष्ठं च निर्ममे मानसान्सुतान्
ब्रह्मा यतात्मकानां तु सर्वेषामात्मयोनिनाम्
प्रजापतिं रुचिं चैव पूर्वेषामेव पूर्वजौ
मनसस्तु रुचिर्नाम जज्ञे जो ऽव्यक्तजन्मनः
प्राणाद्दक्षं सृजन्ब्रह्मा चक्षुर्भ्यां तु मरीचिनम्
शिरसोंगिरसं चैव श्रोत्रादत्रिं तथैव च
समानजो वसिष्ठश्च ह्यपानान्निर्ममे क्रतुम्
धर्मस्तेषां प्रथमजो देवतानां स्मृतस्तु वै
गृहमेधिपुराणास्ते धर्मस्तैः प्राक् प्रवर्त्तितः
तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः
यदा तैरिह सृष्टैस्तु धर्म्माद्यैश्च महर्षिभिः
तमोमात्रावृतः सो ऽभूच्छोकप्रतिहतश्च वै
पुत्राणां च तमोमात्रा अपरा निःसृताभवत्
ततः प्रतिहते तस्य प्रतीते वरणात्मके
द्विधा कृत्वा स्वकं देहमर्द्धेन पुरुषो ऽभवत्
प्रकृतिर्भूतधात्री सा कामाद्वै सृजतः प्रभोः
ब्रह्माणः सा तनुः पूर्वा दिवमावृत्य तिष्टतः
सा देवी नियुतं तप्त्वा तपः परम दुश्चरम्
स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते
लब्ध्वा तु पुरुषः पत्नीं शतरूपामयोनिजाम्