आसेदुरचलश्रेष्ठं क्रमेण मुनिपुङ्गवाः
प्रशान्तक्रूरसत्त्वाढ्यं शुभं मध्ये तपोवनम्
स्निग्धच्छायमनौपम्यं स्वामोदिसुखमारुतम्
विविशुर्त्दृष्टमनसो यथावृद्धपुरस्सरम्
शिष्यैः परिवृतं शान्तं ददृशुस्ते तपोधनाः
तद्दोषशान्त्यै तपसि प्रवृत्तमिव् देहिनम्
ववन्दिरे महामौनं भक्तिप्रणतकन्धराः
अर्घपाद्यादिभिः सम्यक्पूजयामास सादरम्
उवाच भृगुशार्दूलः स्मितपूर्वमिदं वचः
करणीयं किमस्माभिर्वदध्वमविचारितम्
अवेह्यस्मान्मुनिश्रेष्ठ गोकर्णनिलयान्मुनीन्
सतीर्थं तन्महाक्षेत्रं पतितं सागरांभसि
उपलब्धुमभीप्सामो भवतस्तु न संशयः
तस्मात्कर्तुमशक्यं ते त्रैलोक्ये ऽपि न किञ्चन
वयं त्वामागताः सर्वे रामैतदभियाचितुम्
दातुमर्हसि विप्रेन्द्र समुत्सार्यार्मवोदकम्
करणीयं च वः कृत्यं मया नात्र विचारणा
शस्त्रसंग्रहणाच्छक्यं मयापि न तदन्यथा
तपः समास्थितश्चर्तु प्रागेव पितृ शासनात्
प्रतिश्रुत्य सतां मध्ये तपः कर्त्तुमिहानघाः
किङ्कर्त्तव्यं मयात्रेति मम डोलायते मनः
तन्नच्यावयते सत्यद्यथोक्तं ब्रह्मणा पुरा
धर्म एव महांस्तेन चरितस्ते भविष्यति
तमनुद्रुत्य मेधावी धर्ममुद्दिश्य केवलम्
समुद्दिश्य चचौ राजन्द्रष्टुकामः सरित्पतिम्
तत्परं सरितां पत्युस्तीरं प्राप महामनाः
आकरं सर्वरत्नानां पूर्यमाणमनारतम्
दुष्पारपारं सर्वस्य विविधग्रहसंहतिम्
आत्मानमिव चात्मत्वे न्यक्कृताखिलमुद्धतम्
अत्यर्थचपलोत्तुगतरङ्गशतमालिनम्