बभूव भुविधर्मात्मा दिलीप इति विश्रुतः
वनं जगाम मेधावी तपसे धृतमानसः
पालयामास धर्मेण विजित्य सकलानरीन्
सर्वधर्मार्थकुशलः श्रीमानमितविक्रमः
स चापि पालयन्नुर्वीं सम्यग्विहतकण्टकाम्
स शुश्रावात्मनः पूर्वं पूर्वजानां महीपतिः
ब्रह्मदण्डहतान्सर्वान्पितञ्छ्रुत्वातिदुःखितः
स मन्त्रिप्रवरे राज्यं विन्यस्य तपसे वनम्
तपसा महाता पूर्वमायुषे कमलोद्भवम्
ततो गङ्गां महाराज समाराध्य प्रसाद्य च
ततस्तां शिरसा धर्त्तु तपसाऽराधयच्छिवम्
मेरोर्मूर्ध्नस्ततो गङ्गां पतं ती शिरसात्मनः
सा तच्छिरः समासाद्य महावेगप्रवाहिनी
चुलकोदकवच्छंभोर्विलीनां शिरसि प्रभोः
स तां शर्वप्रसादेन लब्ध्वा तु भुवमागताम्
सऽनुव्रजन्ती राजानं राजर्षेर्यजतः पथि
स तु राजऋषिः क्रुद्धो यज्ञवाटे ऽखिले तया
अतन्द्रितो वर्षशतं शुश्रूषितवा स तं पुनः
उषित्वा सुचिरं तस्यनिसृता जठराद्यतः
भगीरथानुगा भूत्वा तत्पितॄणामशेषतः
ततस्तदंभसा सिक्तेष्वस्थिभस्मसु तत्क्षणात्
एवं सा सागरान्सर्वान्दिवं नीत्वा महान्दी
सेनोर्मूर्ध्नश्चतुर्भेदा भूत्वा याता चतुर्द्दिशम्
सीता चालकनन्दा च सुचक्षुर्भद्रवत्यपि
गङ्गांभसा पुनः पूर्णाश्चत्वारो ऽम्बुधयो ऽभवन्
अन्तर्हिताभवन्देशा बहवस्तत्समीपगाः
इतस्ततः प्रयाताश्च जनास्तन्निलया नृप
अर्मवोपात्तवर्त्तित्वात्समुद्रे ऽतर्द्धिमागमत्
सह्याद्रेर्भृगुशार्दूलं द्रष्टुकामा ययुर्नृप
ययुर्दिदृक्षवो रामं महेन्द्रमचलं प्रति