तत्तीर्थमब्धेरपतद्भागे दक्षिणपश्चिमे
निर्वाणं परमं प्राप्ताः पुनरावृत्तिवर्जितम्
देव्या च सकलैर्देवैर्नित्यं वसति शङ्करः
नृणामाशु प्रणश्यन्ति प्रवाते शुष्कपर्णवत्
समीपे वसमानोनामपि पुंसां दुरात्मनाम्
नृणां संजायते राजन्नान्यथा तु कथञ्चन
म्रियन्ते नृप सद्यस्ते स्वर्गं प्राप्स्यन्ति शाश्वतम्
क्षेत्राणामुत्तमं क्षेत्रं सर्वतीर्थनिकेतनम्
सिद्धिकामा वसंति स्म मुनयस्तत्र केचन
निवसंत्यचिरेणैव तत्सिद्धिंप्राप्नुवन्ति हि
वसंति तस्मिन्ये ते हि सिद्धिं प्राप्स्यन्त्यभीप्सिताम्
अन्यस्मात्कोटिगुणितं भवेत्तस्मिन्फलं नृप
महता तपसा युक्ता मुनयस्तन्निवासिनः
वसंतस्तत्र ते सर्वे संप्रधार्य परस्परम्
अगस्त्यपीततोये ऽब्धौ परितो राजनन्दनैः
भूभागेषु तथान्येषु पुरग्रमाकरादिषु
किमकार्षुर्मुनिश्रेष्ठ जनास्तन्निलयास्ततः
केन वापि प्रकारेण ब्रह्मन्नेतद्वदस्व मे
अनूपेषु प्रदेशेषु नाशितेषु दुरात्मभिः
तत्रैव चावसन्कृच्छ्रात्केचित्क्षेत्रनिवासिनः
बभूव भुविधर्मात्मा दिलीप इति विश्रुतः
वनं जगाम मेधावी तपसे धृतमानसः
पालयामास धर्मेण विजित्य सकलानरीन्
सर्वधर्मार्थकुशलः श्रीमानमितविक्रमः
स चापि पालयन्नुर्वीं सम्यग्विहतकण्टकाम्
स शुश्रावात्मनः पूर्वं पूर्वजानां महीपतिः
ब्रह्मदण्डहतान्सर्वान्पितञ्छ्रुत्वातिदुःखितः
स मन्त्रिप्रवरे राज्यं विन्यस्य तपसे वनम्
तपसा महाता पूर्वमायुषे कमलोद्भवम्
ततो गङ्गां महाराज समाराध्य प्रसाद्य च