लाजवर्षेण सानन्दं वीक्षमाणश्च नागरैः
संभाव्यमानः शनकैर्जगम स्वपुरं प्रति
सम्यक्संभावयामास सुहृदो ब्राह्मणानपि
सभायां राजशार्दूलो रेमे शक्र इवापरः
सगरः सह भार्याभ्यां रेमे नृपवरोत्तमः
वसिष्ठानुमते राजा यौवराज्ये ऽभ्यषेचयत्
स प्रियो ऽभवदत्यर्थमुदारैश्च गुणैर्नृपः
नवं च शुक्लपक्षादौशीतांशुमचिरोदितम्
भार्याभ्यामनुरूपाभ्यां रममाणो ऽवसच्चिरम्
पालयामास वसुधां सशैलवनकाननाम्
पूर्णेन्दुवत्सकललोकमनो ऽभिरामः सार्द्ध प्रजाभिरखिलाभिरलं जहर्ष
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे सागरोपाख्यानेशुमतो राज्यप्राप्तिर्नाम पञ्चपञ्चशत्तमो ऽध्यायः
संक्षेपविस्तराभ्यां तु कथितं पापनाशनम्
नवयोजनसाहस्रं विस्तारपरिमण्डलम्
योजनानां सहस्रं तु खात्वाष्टौ विनिपातिताः
ततः प्रभृति लोकेषु सागराख्यामवाप्तवान्
अब्धिः संक्रमयामास परिक्षिप्य निजांभसा
इतस्ततश्च संजाता दुःखेन महतान्विताः
सार्द्धयोजनविस्तारं तीरे पश्चिम वारिधेः
वसंति सिद्धसंघाश्च क्षेत्रे तस्मिन्पुरा नृप
तत्तीर्थमब्धेरपतद्भागे दक्षिणपश्चिमे
निर्वाणं परमं प्राप्ताः पुनरावृत्तिवर्जितम्
देव्या च सकलैर्देवैर्नित्यं वसति शङ्करः
नृणामाशु प्रणश्यन्ति प्रवाते शुष्कपर्णवत्
समीपे वसमानोनामपि पुंसां दुरात्मनाम्
नृणां संजायते राजन्नान्यथा तु कथञ्चन
म्रियन्ते नृप सद्यस्ते स्वर्गं प्राप्स्यन्ति शाश्वतम्
क्षेत्राणामुत्तमं क्षेत्रं सर्वतीर्थनिकेतनम्
सिद्धिकामा वसंति स्म मुनयस्तत्र केचन
निवसंत्यचिरेणैव तत्सिद्धिंप्राप्नुवन्ति हि